यस् आत्मकमिदं विश्वं क्रतवश्च यदात्मकाः । अग्निराहुतयो मंत्राः साङ्ख्यं योगश्च यत्परः
एक एवाद्वितीयोऽसौ अवैतदात्म्यमिदं जगत् । आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः
विविधानीह कर्माणि जनयन् यदवेक्षया । ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम्
तस्मात् कृष्णाय महते दीयतां परमार्हणम् । एवं चेत्सर्वभूतानां आत्मनश्चार्हणं भवेत्
सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने । देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता
इत्युक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाववित् । तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः
श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् । समर्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः
तत्पादाववनिज्यापः शिरसा लोकपावनीः । सभार्यः सानुजामात्यः सकुटुम्बो वहन्मुदा
वासोभिः पीतकौषेयैः भूषणैश्च महाधनैः । अर्हयित्वाश्रुपूर्णाक्षो नाशकत् समवेक्षितुम्
इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः । नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः
( वसंततिलका ) इत्थं निशम्य दमघोषसुतः स्वपीठाद् उत्थाय कृष्णगुणवर्णनजातमन्युः । उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी संश्रावयन् भगवते परुषाण्यभीतः
( अनुष्टुप् ) ईशो दुरत्ययः काल इति सत्यवती श्रुतिः । वृद्धानामपि यद् बुद्धिः बालवाक्यैर्विभिद्यते
यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम् । सदसस्पतयः सर्वे कृष्णो यत् सम्मतोऽर्हणे
तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् । परमऋषीन् ब्रह्मनिष्ठान् लोकपालैश्च पूजितान्
सदस्पतीन् अतिक्रम्य गोपालः कुलपांसनः । यथा काकः पुरोडाशं सपर्यां कथमर्हति
वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः । स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति
ययातिनैषां हि कुलं शप्तं सद्भिर्बहिष्कृतम् । वृथापानरतं शश्वत् सपर्यां कथमर्हति
ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम् । समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः
एवं आदीन्यभद्राणि बभाषे नष्टमङ्गलः । नोवाच किञ्चिद् भगवान् यथा सिंहः शिवारुतम्
भगवन् निन्दनं श्रुत्वा दुःसहं तत्सभासदः । कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा
निन्दां भगवतः श्रृण्वन् तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः
ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः
ततश्चैद्यस्त्वसंभ्रान्तो जगृहे खड्गचर्मणी । भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत
तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा । शिरः क्षुरान्तचक्रेण जहार पततो रिपोः
शब्दः कोलाहलोऽथासीन् शिशुपाले हते महान् । तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः
चैद्यदेहोत्थितं ज्योतिः वासुदेवमुपाविशत् । पश्यतां सर्वभूतानां उल्केव भुवि खाच्च्युता
जन्मत्रयानुगुणित वैरसंरब्धया धिया । ध्यायन् तन्मयतां यातो भावो हि भवकारणम्
ऋत्विग्भ्यः ससदस्येभ्यो दक्षिनां विपुलामदात् । सर्वान् संपूज्य विधिवत् चक्रेऽवभृथमेकराट्
साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः । उवास कतिचिन् मासान् सुहृद्भिः अभियाचितः
ततोऽनुज्ञाप्य राजानं अनिच्छन्तमपीश्वरः । ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः