इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने नाम त्रिसप्ततितमोऽध्यायः
राजसूये भगवतोऽग्रपूजनं ततो रुष्टस्य दुर्वदत्तः शिशुपालस्य भगवता वधश्च - श्रीशुक उवाच - ( अनुष्टुप् ) एवं युधिष्ठिरो राजा जरासन्धवधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत्
श्रीयुधिष्ठिर उवाच - ये स्युस्त्रैलोक्यगुरवः सर्वे लोकमहेश्वराः । वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम्
स भवान् अरविन्दाक्षो दीनानां ईशमानिनाम् । धत्तेऽनुशासनं भूमन् तदत्यन्तविडम्बनम्
न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः । कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः
न वै तेऽजित भक्तानां ममाहमिति माधव । त्वं तवेति च नानाधीः पशूनामिव वैकृती
श्रीशुक उवाच - इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः । कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः
द्वैपायनो भरद्वाजः सुमन्तुर्गोतमोऽसितः । वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः
विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः । पैलः पराशरो गर्गो वैशम्पायन एव च
अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः । वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः
उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः । धृतराष्ट्रः सहसुतो विदुरश्च महामतिः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः । तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप
ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः । कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम्
हैमाः किलोपकरणा वरुणस्य यथा पुरा । इन्द्रादयो लोकपाला विरिञ्चिभवसंयुताः
सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः । मुनयो यक्षरक्षांसि खगकिन्नरचारणाः
राजानश्च समाहूता राजपत्न्यश्च सर्वशः । राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै
मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः । अयाजयन् महाराजं याजका देववर्चसः । राजसूयेन विधिवत् प्रचेतसमिवामराः
सूत्येऽहन्यवनीपालो याजकान् सदसस्पतीन् । अपूजयन् महाभागान् यथावत् सुसमाहितः
सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः । नाध्यगच्छन् नन्ननैकान्त्यात् सहदेवस्तदाब्रवीत्
अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः । एष वै देवताः सर्वा देशकालधनादयः
यस् आत्मकमिदं विश्वं क्रतवश्च यदात्मकाः । अग्निराहुतयो मंत्राः साङ्ख्यं योगश्च यत्परः
एक एवाद्वितीयोऽसौ अवैतदात्म्यमिदं जगत् । आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः
विविधानीह कर्माणि जनयन् यदवेक्षया । ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम्
तस्मात् कृष्णाय महते दीयतां परमार्हणम् । एवं चेत्सर्वभूतानां आत्मनश्चार्हणं भवेत्
सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने । देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता
इत्युक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाववित् । तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः
श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् । समर्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः
तत्पादाववनिज्यापः शिरसा लोकपावनीः । सभार्यः सानुजामात्यः सकुटुम्बो वहन्मुदा
वासोभिः पीतकौषेयैः भूषणैश्च महाधनैः । अर्हयित्वाश्रुपूर्णाक्षो नाशकत् समवेक्षितुम्
इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः । नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः