भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् । भोगैश्च विविधैर्युक्तान् तांबूलाद्यैर्नृपोचितैः
ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः । विरेजुर्मोचिताः क्लेशात् प्रावृडन्ते यथा ग्रहाः
रथान् सदश्वान् आरोप्य मणिकाञ्चनभूषितान् । प्रीणय्य सुनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत्
त एवं मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना । ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः
जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् । यथान्वशासद् भगवान् तथा चक्रुरतन्द्रिताः
जरासन्धं घातयित्वा भीमसेनेन केशवः । पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः
गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः । हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः
तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः । मेनिरे मागधं शान्तं राजा चाप्तमनोरथः
अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः । सर्वमाश्रावयां चक्रुः आत्मना यदनुष्ठितम्
निशम्य धर्मराजस्तत् केशवेनानुकम्पितम् । आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने नाम त्रिसप्ततितमोऽध्यायः
राजसूये भगवतोऽग्रपूजनं ततो रुष्टस्य दुर्वदत्तः शिशुपालस्य भगवता वधश्च - श्रीशुक उवाच - ( अनुष्टुप् ) एवं युधिष्ठिरो राजा जरासन्धवधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत्
श्रीयुधिष्ठिर उवाच - ये स्युस्त्रैलोक्यगुरवः सर्वे लोकमहेश्वराः । वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम्
स भवान् अरविन्दाक्षो दीनानां ईशमानिनाम् । धत्तेऽनुशासनं भूमन् तदत्यन्तविडम्बनम्
न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः । कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः
न वै तेऽजित भक्तानां ममाहमिति माधव । त्वं तवेति च नानाधीः पशूनामिव वैकृती
श्रीशुक उवाच - इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः । कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः
द्वैपायनो भरद्वाजः सुमन्तुर्गोतमोऽसितः । वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः
विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः । पैलः पराशरो गर्गो वैशम्पायन एव च
अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः । वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः
उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः । धृतराष्ट्रः सहसुतो विदुरश्च महामतिः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः । तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप
ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः । कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम्
हैमाः किलोपकरणा वरुणस्य यथा पुरा । इन्द्रादयो लोकपाला विरिञ्चिभवसंयुताः
सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः । मुनयो यक्षरक्षांसि खगकिन्नरचारणाः
राजानश्च समाहूता राजपत्न्यश्च सर्वशः । राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै
मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः । अयाजयन् महाराजं याजका देववर्चसः । राजसूयेन विधिवत् प्रचेतसमिवामराः
सूत्येऽहन्यवनीपालो याजकान् सदसस्पतीन् । अपूजयन् महाभागान् यथावत् सुसमाहितः
सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः । नाध्यगच्छन् नन्ननैकान्त्यात् सहदेवस्तदाब्रवीत्
अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः । एष वै देवताः सर्वा देशकालधनादयः