एकं पादं पदाक्रम्य दोर्भ्यामन्यं प्रगृह्य सः । गुदतः पाटयामास शाखमिव महागजः
एकपादोरुवृषण कटिपृष्ठस्तनांसके । एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः
हाहाकारो महानासीत् निहते मगधेश्वरे । पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ
सहदेवं तत्तनयं भगवान्भूतभावनः । अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः । मोचयामास राजन्यान् संरुद्धा मागधेन ये
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्ध वधो नाम द्विसप्ततितमोऽध्यायः
जरासन्धरुद्धानां राज्ञां कारागृहान् मोचनम् - श्रीशुक उवाच - ( अनुष्टुप् ) अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिताः । ते निर्गता गिरिद्रोण्यां मलिना मलवाससः
क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः । ददृशुस्ते घनश्यामं पीतकौशेयवाससम्
श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् । चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम्
पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम् । किरीटहारकटक कटिसूत्राङ्गदाञ्चितम्
भ्राजद्वरमणिग्रीवं निवीतं वनमालया । पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः
कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः । प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः
राजान ऊचुः - नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय । प्रपन्ना पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः
नैनं नाथानुसूयामो मागधं मधुसूदन । अनुग्रहो यद् भवतो राज्ञां राज्यच्युतिर्विभो
राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः । त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः
मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् । एवं वैकारिकीं मायां अयुक्ता वस्तु चक्षते
( मिश्र ) वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयास्या इतरेतरस्पृधः । घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो मृत्युं पुरस्त्वाविगणय्य दुर्मदाः
त एव कृष्णाद्य गभीररंहसा दुरन्तवीर्येण विचालिताः श्रियः । कालेन तन्वा भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मराम ते
अथो न राज्यम्मृगतृष्णिरूपितं देहेन शश्वत् पतता रुजां भुवा । उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम्
( अनुष्टुप् ) तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर्यथा न विरमेद् अपि संसरतामिह
कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः
श्रीशुक उवाच - संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः । तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा
श्रीभगवानुवाच - अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे । सुदृढा जायते भक्तिः बाढमाशंसितं तथा
दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः । श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम्
हैहयो नहुषो वेनो रावणो नरकोऽपरे । श्रीमदाद् भ्रंशिताः स्थानाद् देवदैत्यनरेश्वराः
भवन्त एतद् विज्ञाय देहाद्युत्पाद्यमन्तवत् । मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्षथ
संतन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ । प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ
उदासीनाश्च देहादौ आत्मारामा धृतव्रताः । मय्यावेश्य मनः सम्यङ् मां अन्ते ब्रह्म यास्यथ
श्रीशुक उवाच - इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः । तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि
सपर्यां कारयामास सहदेवेन भारत । नरदेवोचितैर्वस्त्रैः भूषणैः स्रग्विलेपनैः