अयं तु वयसा तुल्यो नातिसत्त्वो न मे समः । अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो मम
इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् । द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः
ततः समे खले वीरौ संयुक्तावितरेतरौ । जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ
मण्डलानि विचित्राणि सव्यं दक्षिणमेव च । चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः
ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः । गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः
( वसंततिलका ) ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतोंऽसकटिपादकरोरुजत्रून् । चूर्णीबभूवतुरुपेत्य यथार्कशाखे संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः
इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिष्टाम् । शब्दस्तयोः प्रहरतोरिभयोरिवासीन् निर्घातवज्रपरुषस्तलताडनोत्थः
( अनुष्टुप् ) तयोरेवं प्रहरतोः समशिक्षाबलौजसोः । निर्विशेषमभूद् युद्धं अक्षीणजवयोर्नृप
एवं तयोर्महाराज युध्यतोः सप्तविंशतिः । दिनानि निरगंस्तत्र सुहृद्वन् निशि तिष्ठतोः
एकदा मातुलेयं वै प्राह राजन् वृकोदरः । न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव
शत्रोर्जन्ममृती विद्वान् जीवितं च जराकृतम् । पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः
सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः । दर्शयामास विटपं पाटयन्निव संज्ञया
तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः । गृहीत्वा पादयोः शत्रुं पातयामास भूतले
एकं पादं पदाक्रम्य दोर्भ्यामन्यं प्रगृह्य सः । गुदतः पाटयामास शाखमिव महागजः
एकपादोरुवृषण कटिपृष्ठस्तनांसके । एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः
हाहाकारो महानासीत् निहते मगधेश्वरे । पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ
सहदेवं तत्तनयं भगवान्भूतभावनः । अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः । मोचयामास राजन्यान् संरुद्धा मागधेन ये
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्ध वधो नाम द्विसप्ततितमोऽध्यायः
जरासन्धरुद्धानां राज्ञां कारागृहान् मोचनम् - श्रीशुक उवाच - ( अनुष्टुप् ) अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिताः । ते निर्गता गिरिद्रोण्यां मलिना मलवाससः
क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः । ददृशुस्ते घनश्यामं पीतकौशेयवाससम्
श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् । चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम्
पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम् । किरीटहारकटक कटिसूत्राङ्गदाञ्चितम्
भ्राजद्वरमणिग्रीवं निवीतं वनमालया । पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः
कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः । प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः
राजान ऊचुः - नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय । प्रपन्ना पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः
नैनं नाथानुसूयामो मागधं मधुसूदन । अनुग्रहो यद् भवतो राज्ञां राज्यच्युतिर्विभो
राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः । त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः
मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् । एवं वैकारिकीं मायां अयुक्ता वस्तु चक्षते
( मिश्र ) वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयास्या इतरेतरस्पृधः । घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो मृत्युं पुरस्त्वाविगणय्य दुर्मदाः