तद्देवदेव भवतश्चरणारविन्द सेवानुभावमिह पश्यतु लोक एषः । ये त्वां भजन्ति न भजन्त्युत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम्
न ब्रह्मणः स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः । संसेवतां सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न विपर्ययोऽत्र
श्रीभगवानुवाच - ( अनुष्टुप् ) सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन । कल्याणी येन ते कीर्तिः लोकान् अनुभविष्यति
ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो । सर्वेषामपि भूतानां ईप्सितः क्रतुराडयम्
विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे । सम्भृत्य सर्वसम्भारान् आहरस्व महाक्रतुम्
एते ते भ्रातरो राजन् लोकपालांशसंभवाः । जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः
न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया । विभूतिभिर्वाभिभवेद् देवोऽपि किमु पार्थिवः
श्रीशुक उवाच - निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः । भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान्
सहदेवं दक्षिणस्यां आदिशत् सह सृञ्जयैः । दिशि प्रतीच्यां नकुलं उदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः
ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा । अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते
श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः । आहोपायं तमेवाद्य उद्धवो यमुवाच ह
भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः । जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः
ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् । ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः
राजन् विद्ध्यतिथीन् प्राप्तान् अर्थिनो दूरमागतान् । तन्नः प्रयच्छ भद्रं ते यद् वयं कामयामहे
किं दुर्मर्षं तितिक्षूणां किं अकार्यं असाधुभिः । किं न देयं वदान्यानां कः परः समदर्शिनाम्
योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः
हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः । व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः
श्रीशुक उवाच - स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि । राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत्
राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति । ददानि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम्
बलेर्नु श्रूयते कीर्तिः वितता दिक्ष्वकल्मषा । ऐश्वर्याद् भ्रंशितस्यापि विप्रव्याजेन विष्णुना
श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे । जानन्नपि महीं प्रादाद् वार्यमाणोऽपि दैत्यराट्
जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना । देहेन पतमानेन नेहता विपुलं यशः
इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् । हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः
श्रीभगवानुवाच - युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे । युद्धार्थिनो वयं प्राप्ता राजन्या नान्यकाङ्क्षिणः
असौ वृकोदरः पार्थः तस्य भ्रातार्जुनो ह्ययम् । अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम्
एवमावेदितो राजा जहासोच्चैः स्म मागधः । आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः
न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा । मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः
अयं तु वयसा तुल्यो नातिसत्त्वो न मे समः । अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो मम
इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् । द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः
ततः समे खले वीरौ संयुक्तावितरेतरौ । जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ