श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः । आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा
कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् । अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः
सुखं निवासयामास धर्मराजो जनार्दनम् । ससैन्यं सानुगामत्यं सभार्यं च नवं नवम्
तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः । मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता
उवास कतिचिन् मासान् राज्ञः प्रियचिकीर्षया । विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः
राजसूयोपक्रमे पाण्डवानां दिग्विजयः; भीमेन जरासंध वधश्च - श्रीशुक उवाच - ( अनुष्टुप् ) एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः । ब्राह्मणैः क्षत्रियैर्वैश्यैः भ्रातृभिश्च युधिष्ठिरः
आचार्यैः कुलवृद्धैश्च ज्ञातिसंबन्धिबान्धवैः । श्रृण्वतामेव चैतेषां आभाष्येदमुवाच ह
श्रीयुधिष्ठिर उवाच - ( वसंततिलका ) क्रतुराजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर्भवतः तत्संपादय नः प्रभो
त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने शुचयो गृणन्ति । विन्दन्ति ते कमलनाभ भवापवर्गम् आशासते यदि त आशिष ईश नान्ये
तद्देवदेव भवतश्चरणारविन्द सेवानुभावमिह पश्यतु लोक एषः । ये त्वां भजन्ति न भजन्त्युत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम्
न ब्रह्मणः स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः । संसेवतां सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न विपर्ययोऽत्र
श्रीभगवानुवाच - ( अनुष्टुप् ) सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन । कल्याणी येन ते कीर्तिः लोकान् अनुभविष्यति
ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो । सर्वेषामपि भूतानां ईप्सितः क्रतुराडयम्
विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे । सम्भृत्य सर्वसम्भारान् आहरस्व महाक्रतुम्
एते ते भ्रातरो राजन् लोकपालांशसंभवाः । जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः
न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया । विभूतिभिर्वाभिभवेद् देवोऽपि किमु पार्थिवः
श्रीशुक उवाच - निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः । भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान्
सहदेवं दक्षिणस्यां आदिशत् सह सृञ्जयैः । दिशि प्रतीच्यां नकुलं उदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः
ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा । अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते
श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः । आहोपायं तमेवाद्य उद्धवो यमुवाच ह
भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः । जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः
ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् । ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः
राजन् विद्ध्यतिथीन् प्राप्तान् अर्थिनो दूरमागतान् । तन्नः प्रयच्छ भद्रं ते यद् वयं कामयामहे
किं दुर्मर्षं तितिक्षूणां किं अकार्यं असाधुभिः । किं न देयं वदान्यानां कः परः समदर्शिनाम्
योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः
हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः । व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः
श्रीशुक उवाच - स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि । राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत्
राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति । ददानि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम्
बलेर्नु श्रूयते कीर्तिः वितता दिक्ष्वकल्मषा । ऐश्वर्याद् भ्रंशितस्यापि विप्रव्याजेन विष्णुना