अथादिशत् प्रयाणाय भगवान् देवकीसुतः । भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः
निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् । सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् । सूतोपनीतं स्वरथं आरुहद् गरुडध्वजम्
( प्रभावती ) ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया । मृदङ्ग भेर्यानक शङ्खगोमुखैः प्रघोषघोषितककुभो निराक्रमत्
नृवाजिकाञ्चन शिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः । वरांबराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः
नरोष्ट्रगोमहिषखराश्वतर्यनः करेणुभिः परिजनवारयोषितः । स्वलङ्कृताः कटकुटिकम्बलाम्बराद् उपस्करा ययुरधियुज्य सर्वतः
बलं बृहद्ध्वजपटछत्रचामरैः वरायुधाभरणकिरीटवर्मभिः । दिवांशुभिस्तुमुलरवं बभौ रवेः यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः
अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा । निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्दसन्दर्शननिर्वृतेन्द्रियः
( अनुष्टुप् ) राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम्
इत्युक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् । तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः
आनर्तसौवीरमरून् तीर्त्वा विनशनं हरिः । गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान्
ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् । पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत्
तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् । अजातशत्रुर्निरगात् सोपाध्यायः सुहृद्वृतः
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा । अभ्ययात् स हृषीकेशं प्राणाः प्राणमिवादृतः
दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः । चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः
( मिश्र ) दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः । लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृत लोकविभ्रमः
तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम्
( अनुष्टुप् ) अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः । ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः
मानिनो मानयामास कुरुसृञ्जयकैकयान् । सूतमागधगन्धर्वा वन्दिनश्चोपमंत्रिणः
मृदङ्गशङ्खपटह वीणापणवगोमुखैः । ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः
एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः । संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम्
( वसंततिलका ) संसिक्तवर्त्म करिणां मदगन्धतोयैः चित्रध्वजैः कनकतोरणपूर्णकुम्भैः । मृष्टात्मभिर्नवदुकूलविभूषणस्रग् गन्धैर्नृभिर्युवतिभिश्च विराजमानम्
उद्दीप्तदीपबलिभिः प्रतिसद्म जाल निर्यातधूपरुचिरं विलसत्पताकम् । मूर्धन्यहेमकलशै रजतोरुशृङ्गैः जुष्टं ददर्श भवनैः कुरुराजधाम
प्राप्तं निशम्य नरलोचनपानपात्रम् औत्सुक्यविश्लथितकेश दुकूलबन्धाः । सद्यो विसृज्य गृहकर्म पतींश्च तल्पे द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे
तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः कृष्णंसभार्यमुपलभ्य गृहाधिरूढाः । नार्यो विकीर्य कुसुमैर्मनसोपगुह्य सुस्वागतं विदधुरुत्स्मयवीक्षितेन
ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीः तारा यथोडुपसहाः किमकार्यमूभिः । यच्चक्षुषां पुरुषमौलिरुदारहास लीलावलोककलयोत्सवमातनोति
तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः । ( अनुष्टुप् ) चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः
अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः । ससम्भ्रमैरभ्युपेतः प्राविशद् राजमन्दिरम्
पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् । प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे
गोविन्दं गृहमानीय देवदेवेशमादृतः । पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः
पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् । स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः