श्रीउद्धव उवाच - यदुक्तं ऋषिणा देव साचिव्यं यक्ष्यतस्त्वया । कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम्
यष्टव्यम्राजसूयेन दिक् चक्रजयिना विभो । अतो जरासुतजय उभयार्थो मतो मम
अस्माकं च महानर्थो ह्येतेनैव भविष्यति । यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः
स वै दुर्विषहो राजा नागायुतसमो बले । बलिनामपि चान्येषां भीमं समबलं विना
द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः । ब्रह्मण्योऽभ्यर्थितो विप्रैः न प्रत्याख्याति कर्हिचित्
ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः । हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ
निमित्तं परमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव
( वसंततिलका ) गायन्ति ते विशदकर्म गृहेषु देव्यो राज्ञां स्वशत्रुवधमात्मविमोक्षणं च । गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः पित्रोश्च लब्धशरणा मुनयो वयं च
( अनुष्टुप् ) जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते । प्रायः पाकविपाकेन तव चाभिमतः क्रतुः
श्रीशुक उवाच - इत्युद्धव वचो राजन् सर्वतोभद्रमच्युतम् । देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन्
अथादिशत् प्रयाणाय भगवान् देवकीसुतः । भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः
निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् । सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् । सूतोपनीतं स्वरथं आरुहद् गरुडध्वजम्
( प्रभावती ) ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया । मृदङ्ग भेर्यानक शङ्खगोमुखैः प्रघोषघोषितककुभो निराक्रमत्
नृवाजिकाञ्चन शिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः । वरांबराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः
नरोष्ट्रगोमहिषखराश्वतर्यनः करेणुभिः परिजनवारयोषितः । स्वलङ्कृताः कटकुटिकम्बलाम्बराद् उपस्करा ययुरधियुज्य सर्वतः
बलं बृहद्ध्वजपटछत्रचामरैः वरायुधाभरणकिरीटवर्मभिः । दिवांशुभिस्तुमुलरवं बभौ रवेः यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः
अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा । निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्दसन्दर्शननिर्वृतेन्द्रियः
( अनुष्टुप् ) राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम्
इत्युक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् । तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः
आनर्तसौवीरमरून् तीर्त्वा विनशनं हरिः । गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान्
ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् । पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत्
तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् । अजातशत्रुर्निरगात् सोपाध्यायः सुहृद्वृतः
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा । अभ्ययात् स हृषीकेशं प्राणाः प्राणमिवादृतः
दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः । चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः
( मिश्र ) दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः । लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृत लोकविभ्रमः
तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम्
( अनुष्टुप् ) अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः । ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः
मानिनो मानयामास कुरुसृञ्जयकैकयान् । सूतमागधगन्धर्वा वन्दिनश्चोपमंत्रिणः
मृदङ्गशङ्खपटह वीणापणवगोमुखैः । ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः
एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः । संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम्