मृदङ्गवीणामुरज वेणुतालदरस्वनैः । ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः
तत्राहुर्ब्राह्मणाः केचित् आसीना ब्रह्मवादिनः । पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः
तत्रैकः पुरुषो राजन् आगतोऽपूर्वदर्शनः । विज्ञापितो भगवते प्रतीहारैः प्रवेशितः
स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः । राज्ञामावेदयद् दुखं जरासन्धनिरोधजम्
ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः । प्रसह्य रुद्धास्तेनासन् अयुते द्वे गिरिव्रजे
राजान ऊचुः - कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन । वयं त्वां शरणं यामो भवभीताः पृथग्धियः
( वसंततिलका ) लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै
लोके भवाञ्जगदिनः कलयावतीर्णः सद् रक्षणाय खलनिग्रहणाय चान्यः । कश्चित् त्वदीयमतियाति निदेशमीश किं वा जनः स्वकृतमृच्छति तन्न विद्मः
स्वप्नायितं नृपसुखं परतंत्रमीश शश्वद्भयेन मृतकेन धुरं वहामः । हित्वा तदात्मनि सुखं त्वदनीहलभ्यं क्लिश्यामहेऽतिकृपणास्तव माययेह
तन्नो भवान् प्रणतशोकहराङ्घ्रियुग्मो बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् । यो भूभुजोऽयुतमतङ्गजवीर्यमेको बिभ्रद् रुरोध भवने मृगराडिवावीः
यो वै त्वया द्विनवकृत्व उदात्तचक्र भग्नो मृधे खलु भवन्तमनन्तवीर्यम् । जित्वा नृलोकनिरतं सकृदूढदर्पो युष्मत्प्रजा रुजति नोऽजित तद्विधेहि
दूत उवाच - ( अनुष्टुप् ) इति मागधसंरुद्धा भवद्दर्शनकाङ्क्षिणः । प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम्
श्रीशुक उवाच - राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः । बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः
तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः । ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा
सभाजयित्वा विधिवत् कृतासनपरिग्रहम् । बभाषे सुनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम्
अपि स्विदद्य लोकानां त्रयाणां अकुतोभयम् । ननु भूयान् भगवतो लोकान् पर्यटतो गुणः
न हि तेऽविदितं किञ्चित् लोकेषु ईश्वर कर्तृषु । अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम्
श्रीनारद उवाच - ( मिश्र ) दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः । भूतेषु भूमंश्चरतः स्वशक्तिभिः वह्नेरिवच्छन्नरुचो न मेऽद्भुतम्
तवेहितं कोऽर्हति साधु वेदितुं स्वमाययेदं सृजतो नियच्छतः । यद् विद्यमानात् मतयावभासते तस्मै नमस्ते स्वविलक्षणात्मने
जीवस्य यः संसरतो विमोक्षणं न जानतोऽनर्थवहाच्छरीरतः । लीलावतारैः स्वयशः प्रदीपकं प्राज्वालयत्त्वा तमहं प्रपद्ये
( अनुष्टुप् ) अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् । राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम्
यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । पारमेष्ठ्यकामो नृपतिः तद्भवाननुमोदताम्
तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः । दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः
श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्तेवसायिनः । तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः
( वसंततिलका ) यस्यामलं दिवि यशः प्रथितं रसायां भूमौ च ते भुवनमङ्गल दिग्वितानम् । मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चेह चरणाम्बु पुनाति विश्वम्
श्रीशुक उवाच - ( अनुष्टुप् ) तत्र तेष्वात्मपक्षेष्व गृह्णत्सु विजिगीषया । वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः
श्रीभगवानुवाच - त्वं हि नः परमं चक्षुः सुहृन् मंत्रार्थतत्त्ववित् । अथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत्
इत्युपामंत्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् । निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यानविचारे नाम सप्ततितमोऽध्यायः
उद्धवमंत्रणया श्रीकृष्णस्येन्द्रप्रस्थगमनम् - श्रीशुक उवाच - ( अनुष्टुप् ) इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् । सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः