बुद्बुदा इव तोयेषु मशका इव जन्तुषु । जायन्ते मरणायैव कथाश्रवणवर्जिताः
जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम् । चित्रं किमु तदा चित्त ग्रन्थिभेदः कथाश्रवात्
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते
संसारकर्दमालेप प्रक्षालनपटीयसि । कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैः स्मृता
एवं ब्रुवति वै तस्मिन् विमानं आगमत् तदा । वैकुण्ठवासिभिर्युक्तं प्रस्फुरत् दीप्तिमण्डलम्
सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः । विमाने वैष्णवान् वीक्श्य गोकर्णो वाक्यमब्रवीत्
गोकर्ण उवाच - अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः । आनीतानि विमानानि न तेषां युगपत्कुतः
श्रवणं समभागेन सर्वेषामिह दृश्यते । फलभेदः कुतो जातः प्रब्रुवन्तु हरिप्रियाः
हरिदासा ऊचुः - श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः । श्रवणं तु कृतं सर्वैः न तथा मननं कृतम् । फलभेदोस्ततो जातो भजनादपि मानद
सप्तरात्रं उपोषैव प्रेतेन श्रवणं कृतम् । मननादि तथा तेन स्थिरचित्ते कृतं भृशम्
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् । संदिग्धो हि हतो मंत्रो व्यग्रचित्तो हतो जपः
अवैष्णवो हतो देशो हतं श्राद्धं अपात्रकम् । हतं अश्रोत्रिये दानं अनाचारं हतं कुलम्
विश्वासो गुरुवाक्येषु स्वस्मिन् दीनत्वभावना । मनोदोषजयश्चैव कथायां निश्चला मतिः
एवं आदि कृतं चेत् स्यात् तदा वै श्रवणे फलम् । पुनः श्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम्
गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयम् । एवमुक्त्वा ययुः सर्वे वैकुण्ठ हरिकीर्तनाः
श्रवणो मासि गोकर्णः कथां ऊचे तथा पुनः । सप्तरात्रवतीं भूयः श्रवणं तैः कृतं पुनः
कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद
विमानैः सह भक्तैश्च हरिराविर्बभूव ह । जयशब्दा नमःशब्दाः तत्रासन् बहवस्तदा
पाञ्चजन्य ध्वनिं चक्रे हर्षात् तत्र स्वयं हरिः । गोकर्णं तु समालिंग्य अकरोत् स्वसदृषं हरिः
श्रोतॄन् अन्यान् घनश्यामान् पीतकौशेयवाससः । कीरीटिनः कुण्डलिनः तथा चक्रे हरिः क्षणात्
तद्ग्रामे ये स्थिता जीवा आश्वचाण्डालजातयः । विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा
प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः । गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् । कथाश्रवणतः प्रीतो निर्ययौ भक्तवत्सलः
अयोध्यावासिनं पूर्वं यथा रामेण संगताः । तथा कृष्णेन ते नीता गोलोकं योगिदुर्लभम्
यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा । तं लोकं हि गतास्ते तु श्रीमद्भागवतश्रवात्
(इंद्रवंशा) ब्रूमोऽत्र ते किं फलवृन्दमुज्ज्वलं सप्ताहयज्ञेन कथासु संचितम् । कर्णेन गोकर्णकथाक्षरो यैः पीतश्च ते गर्भगता न भूयः
वाताम्बुपर्णाशन देहशोषणैः तपोभिः उग्रैः चिरकालसंचितैः । योगैश्च संयान्ति न तां गतिं वै सप्ताहगाथाश्रवणेन यान्ति याम्
(अनुष्टुप्) इतिहासं इमं पुण्यं शाण्डिल्योऽपि मुनीश्वरः । पठते चित्रकूटस्थो ब्रह्मानन्दपरिप्लुतः
(इंद्रवज्रा) आख्यानमेतत् परमं पवित्रं श्रुतं सकृद्वै विदहेदघौघम् । श्राद्धे प्रयुक्तं पितृतृप्तिमावहेत् नित्यं सुपाठाद अपुनर्भवं च
श्रीमद्भागवतमाहात्म्यम् - षष्ठोऽध्यायः श्रीमद्भागवत सप्ताहपारायणविधिः कुमारा ऊचुः - (अनुष्टुप्) अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः । विवाहे यादृशं वित्तं तादृशं परिकल्पयेत्