( अनुष्टुप् ) उपस्थायार्कमुद्यन्तं तर्पयित्वात्मनः कलाः । देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान्
धेनूनां रुक्मश्रृङ्गीणां साध्वीनां मौक्तिकस्रजाम् । पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम्
ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह । अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने
गोविप्रदेवतावृद्ध गुरून् भूतानि सर्वशः । नमस्कृत्यात्मसंभूतीः मङ्गलानि समस्पृशत्
आत्मानं भूषयामास नरलोकविभूषणम् । वासोभिर्भूषणैः स्वीयैः दिव्यस्रग् अनुलेपनैः
अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः । कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम् । प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत
संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनैः । सुहृदः प्रकृतीर्दारान् उपायुङ्क्त ततः स्वयम्
तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् । सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः
गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् । सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः
ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः । कृच्छ्राद् विसृष्टो निरगात् जातहासो हरन् मनः
सुधर्माख्यां सभां सर्वैः वृष्णिभिः परिवारितः । प्राविशद् यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः
( वंशस्था ) तत्रोपविष्टः परमासने विभुः बभौ स्वभासा ककुभोऽवभासयन् । वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः
( अनुष्टुप् ) तत्रोपमंत्रिणो राजन् नानाहास्यरसैर्विभुम् । उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक्
मृदङ्गवीणामुरज वेणुतालदरस्वनैः । ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः
तत्राहुर्ब्राह्मणाः केचित् आसीना ब्रह्मवादिनः । पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः
तत्रैकः पुरुषो राजन् आगतोऽपूर्वदर्शनः । विज्ञापितो भगवते प्रतीहारैः प्रवेशितः
स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः । राज्ञामावेदयद् दुखं जरासन्धनिरोधजम्
ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः । प्रसह्य रुद्धास्तेनासन् अयुते द्वे गिरिव्रजे
राजान ऊचुः - कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन । वयं त्वां शरणं यामो भवभीताः पृथग्धियः
( वसंततिलका ) लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै
लोके भवाञ्जगदिनः कलयावतीर्णः सद् रक्षणाय खलनिग्रहणाय चान्यः । कश्चित् त्वदीयमतियाति निदेशमीश किं वा जनः स्वकृतमृच्छति तन्न विद्मः
स्वप्नायितं नृपसुखं परतंत्रमीश शश्वद्भयेन मृतकेन धुरं वहामः । हित्वा तदात्मनि सुखं त्वदनीहलभ्यं क्लिश्यामहेऽतिकृपणास्तव माययेह
तन्नो भवान् प्रणतशोकहराङ्घ्रियुग्मो बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् । यो भूभुजोऽयुतमतङ्गजवीर्यमेको बिभ्रद् रुरोध भवने मृगराडिवावीः
यो वै त्वया द्विनवकृत्व उदात्तचक्र भग्नो मृधे खलु भवन्तमनन्तवीर्यम् । जित्वा नृलोकनिरतं सकृदूढदर्पो युष्मत्प्रजा रुजति नोऽजित तद्विधेहि
दूत उवाच - ( अनुष्टुप् ) इति मागधसंरुद्धा भवद्दर्शनकाङ्क्षिणः । प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम्
श्रीशुक उवाच - राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः । बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः
तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः । ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा
सभाजयित्वा विधिवत् कृतासनपरिग्रहम् । बभाषे सुनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम्
अपि स्विदद्य लोकानां त्रयाणां अकुतोभयम् । ननु भूयान् भगवतो लोकान् पर्यटतो गुणः
न हि तेऽविदितं किञ्चित् लोकेषु ईश्वर कर्तृषु । अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम्