तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् । ततोऽन्यस्मिन्गृहेऽपश्यन् मज्जनाय कृतोद्यमम्
जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः । भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम्
क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् । एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु
अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् । क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः
मंत्रयन्तं च कस्मिंश्चित् मंत्रिभिश्चोद्धवादिभिः । जलक्रीडारतं क्वापि वारमुख्याबलावृतम्
कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः । इतिहासपुराणानि श्रृण्वन्तं मङ्गलानि च
हसन्तं हासकथया कदाचित् प्रियया गृहे । क्वापि धर्मं सेवमानं अर्थकामौ च कुत्रचित्
ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् । शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया
कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् । कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम्
पुत्राणां दुहितॄणां च काले विध्युपयापनम् । दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः
प्रस्थापनोपनयनैः अपत्यानां महोत्सवान् । वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे
यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः । पूर्तयन्तं क्वचिद् धर्मं कूर्पाराममठादिभिः
चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् । घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवैः
अव्यक्तलिङ्गं प्रकृतिषु अन्तःपुरगृहादिषु । क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया
अथोवाच हृषीकेशं नारदः प्रहसन्निव । योगमायोदयं वीक्ष्य मानुषीं ईयुषो गतिम्
विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् । योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया
अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् । पर्यटामि तवोद्गायन् लीला भुवनपावनीम्
श्रीभगवानुवाच - ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता । तच्छिक्षयन्लोकमिमं आस्थितः पुत्र मा खिदः
श्रीशुक उवाच - इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् । तमेव सर्वगेहेषु सन्तमेकं ददर्श ह
कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् । मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुकः
इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना । सम्यक् सभाजितः प्रीतः तमेवानुस्मरन् ययौ
( वसंततिलका ) एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः । रेमेऽङ्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः
यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयाणि हरीश्चकार यस्त्वङ्ग गायति श्रृणोत्यनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नाम एकोनसप्ततिमोऽध्यायः
श्रीकृष्णस्याह्निककृत्यवर्णनं; युधिष्ठिरसंदेशमादाय नारदस्य, जरासंधकारानिबद्धनृपाणां संदेशमादाय दूतस्य चागमनम् - श्रीशुक उवाच - ( अनुष्टुप् ) अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् । गृहीतकण्ठ्यः पतिभिः भाधव्यो विरहातुराः
वयांस्यरूरुवन् कृष्णं बोधयन्तीव वन्दिनः । गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः
मुहूर्तं तं तु वैदर्भी नामृष्यद् अतिशोभनम् । परिरम्भणविश्लेषात् प्रियबाह्वन्तरं गता
ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम्
( मिश्र ) एकं स्वयंज्योतिरनन्यमव्ययं स्वसंस्थया नित्यनिरस्तकल्मषम् । ब्रह्माख्यमस्योद्भवनाशहेतुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम्
अथाप्लुतोऽम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी । चकार सन्ध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यतः