नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय । विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः
श्रीशुक उवाच - एवं प्रपन्नैः संविग्नैः वेपमानायनैर्बलः । प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ
दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् । ददौ च द्वादशशतानि अयुतानि तुरङ्गमान्
रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् । दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः
प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः । ससुतः सस्नुषः प्रायात् सुहृद्भिरभिनन्दितः
( मिश्र ) ततः प्रविष्टः स्वपुरं हलायुधः समेत्य बन्धूननुरक्तचेतसः । शशंस सर्वं यदुपुङ्गवानां मध्ये सभायां कुरुषु स्वचेष्टितम्
( अनुष्टुप् ) अद्यापि च पुरं ह्येतत् सूचयद् रामविक्रमम् । समुन्नतं दक्षिणतो गङ्गायां अनुदृश्यते
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे हस्तिनपुरकर्षणरूपसंकर्षणविजयो नाम अष्टषष्टितमोऽध्यायः
देवर्षिनारदकर्तृकं भगवतो गृहचर्यादर्शनम् - श्रीशुक उवाच - ( अनुष्टुप् ) नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् । कृष्णेनैकेन बह्वीनां तद् दिदृक्षुः स्म नारदः
चित्रं बतैतदेकेन वपुषा युगपत् पृथक् । गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत्
इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् । पुष्पितोपवनाराम द्विजालिकुलनादिताम्
उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः । छुरितेषु सरःसूच्चैः कूजितां हंससारसैः
प्रासादलक्षैर्नवभिः जुष्टां स्फाटिकराजतैः । महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः
( मिश्र ) विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः । संसिक्तमार्गाङ्गनवीथिदेहलीं पतत्पताका ध्वजवारितातपाम्
( अनुष्टुप् ) तस्यामन्तःपुरं श्रीमद् अर्चितं सर्वधिष्ण्यपैः । हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम्
तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् । विवेशैकतमं शौरेः पत्नीनां भवनं महत्
विष्टब्धं विद्रुमस्तंभैः वैदूर्यफलकोत्तमैः । इन्द्रनीलमयैः कुड्यैः जगत्या चाहतत्विषा
वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः । दान्तैरासनपर्यङ्कैः मण्युत्तमपरिष्कृतैः
दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् । पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः
( वसंततिलका ) रत्नप्रदीपनिकरद्युतिभिर्निरस्त ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग । नृत्यन्ति यत्र विहितागुरुधूपमक्षैः निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः
तस्मिन्समानगुणरूपवयःसुवेष दासीसहस्रयुतयानुसवं गृहिण्या । विप्रो ददर्श चमरव्यजनेन रुक्म दण्डेन सात्वतपतिं परिवीजयन्त्या
तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री पर्यङ्कतः सकलधर्मभृतां वरिष्ठः । आनम्य पादयुगलं शिरसा किरीट जुष्टेन साञ्जलिरवीविशदासने स्वे
तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना बिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि । ब्रह्मण्यदेव इति यद्गुणनाम युक्तं तस्यैव यच्चरणशौचमशेषतीर्थम्
संपूज्य देवऋषिवर्यमृषिः पुराणो नारायणो नरसखो विधिनोदितेन । वाण्याभिभाष्य मितयामृतमिष्टया तं प्राह प्रभो भगवते करवाम हे किम्
श्रीनारद उवाच - नैवाद्भुतं त्वयि विभोऽखिललोकनाथे मैत्री जनेषु सकलेषु दमः खलानाम् । निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां स्वैरावतार उरुगाय विदाम सुष्ठु
दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात्
( अनुष्टुप् ) ततोऽन्यदाविशद् गेहं कृष्णपत्न्याः स नारदः । योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया
दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च । पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः
पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति । क्रियते किं नु पूर्णानां अपूर्णैरस्मदादिभिः
अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु । स तु विस्मित उत्थाय तूष्णीमन्यदगाद् गृहम्