तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् । तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः
तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् । तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम्
बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् । परस्परमथो रामो बभाषेऽविक्लवं वचः
उग्रसेनः क्षितीशेशो यद् व आज्ञापयत् प्रभुः । तद् अव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम्
यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् । अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया
वीर्यशौर्यबलोन्नद्धं आत्मशक्तिसमं वचः । कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः
अहो महच्चित्रमिदं कालगत्या दुरत्यया । आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम्
एते यौनेन संबद्धाः सहशय्यासनाशनाः । वृष्णयस्तुल्यतां नीता अस्मद् दत्तनृपासनाः
चामरव्यजने शङ्खं आतपत्रं च पाण्डुरम् । किरीटमासनं शय्यां भुञ्जन्त्यस्मदुपेक्षया
( इंद्रवंशा ) अलं यदूनां नरदेवलाञ्छनैः दातुः प्रतीपैः फणिनामिवामृतम् । येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत
( अनुष्टुप् ) कथमिन्द्रोऽपि कुरुभिः भीष्मद्रोणार्जुनादिभिः । अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः
श्रीबादरायणिरुवाच - जन्मबन्धुश्रीयोन्नद्ध मदास्ते भरतर्षभ । आश्राव्य रामं दुर्वाच्यं असभ्याः पुरमाविशन्
दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः । अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः
नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः । तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा
अहो यदून् सुसंरब्धाम् कृष्णं च कुपितं शनैः । सान्त्वयित्वाहमेतेषां शममिच्छन् इहागतः
त इमे मन्दमतयः कलहाभिरताः खलाः । तं मामवज्ञाय मुहुः दुर्भाषान् मानिनोऽब्रुवन्
नोग्रसेनः किल विभुः भोजवृष्ण्यन्धकेश्वरः । शक्रादयो लोकपाला यस्यादेशानुवर्तिनः
सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्घ्रिपः । आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः
यस्य पादयुगं साक्षात् श्रीरुपास्तेऽखिलेश्वरी । स नार्हति किल श्रीशो नरदेवपरिच्छदान्
( वसंततिलका ) यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालैः मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् । ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व
( अनुष्टुप् ) भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल । उपानहः किल वयं स्वयं तु कुरवः शिरः
अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् । असंबद्धा गिरो रुक्षाः कः सहेतानुशासीता
अद्य निष्कौरवं पृथ्वीं करिष्यामीत्यमर्षितः । गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम्
लाङ्गलाग्रेण नगरं उद्विदार्य गजाह्वयम् । विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः
जलयानमिवाघूर्णं गङ्गायां नगरं पतत् । आकृष्यमाणमालोक्य कौरवाः जातसंभ्रमाः
तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः । सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम्
राम रामाखिलाधार प्रभावं न विदाम ते । मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम्
स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः । लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि
( मिश्र ) त्वमेव मूर्ध्नीदमनन्त लीलया भूमण्डलं बिभर्षि सहस्रमूर्धन् । अन्ते च यः स्वात्मनि रुद्धविश्वः शेषेऽद्वितीयः परिशिष्यमाणः
( अनुष्टुप् ) कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् । बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः