धन्या भागवती वार्ता प्रेतपीडाविनाशिनी । सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः
कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते । अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति
आर्द्रं शुष्कं लघु स्थूलं वाङ्मनः कर्मभिः कृतम् । श्रवणं विदहेत्पापं पावकं समिधो यथा
अस्मिन् वै भारते वर्षे सूरिभिः देवसंसदि । अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम्
किं मोहतो रक्षितेन सुपुष्टेन बलीयसा । अध्रुवेण शरीरेण शुकशास्त्रकथां विना
अस्थिस्तम्भं स्नायुबद्धं मांसशोणितलेपितम् । चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः
जराशोकविपाकार्तं रोगमन्दिरमातुरम् । दूष्पूरं दुर्धरं दुष्टं सदोषं क्षणभंगुरम्
कृमिविड् भस्म संज्ञान्तं शरीरं इति वर्णितम् । अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेत् न हि
यत्प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति । तदीयरससम्पुष्टे काये का नाम नित्यता
सप्ताहश्रवणात् लोके प्राप्यते निकटे हरिः । अतो दोषनिवृत्त्यर्थं एतद् एव हि साधनम्
बुद्बुदा इव तोयेषु मशका इव जन्तुषु । जायन्ते मरणायैव कथाश्रवणवर्जिताः
जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम् । चित्रं किमु तदा चित्त ग्रन्थिभेदः कथाश्रवात्
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते
संसारकर्दमालेप प्रक्षालनपटीयसि । कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैः स्मृता
एवं ब्रुवति वै तस्मिन् विमानं आगमत् तदा । वैकुण्ठवासिभिर्युक्तं प्रस्फुरत् दीप्तिमण्डलम्
सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः । विमाने वैष्णवान् वीक्श्य गोकर्णो वाक्यमब्रवीत्
गोकर्ण उवाच - अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः । आनीतानि विमानानि न तेषां युगपत्कुतः
श्रवणं समभागेन सर्वेषामिह दृश्यते । फलभेदः कुतो जातः प्रब्रुवन्तु हरिप्रियाः
हरिदासा ऊचुः - श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः । श्रवणं तु कृतं सर्वैः न तथा मननं कृतम् । फलभेदोस्ततो जातो भजनादपि मानद
सप्तरात्रं उपोषैव प्रेतेन श्रवणं कृतम् । मननादि तथा तेन स्थिरचित्ते कृतं भृशम्
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् । संदिग्धो हि हतो मंत्रो व्यग्रचित्तो हतो जपः
अवैष्णवो हतो देशो हतं श्राद्धं अपात्रकम् । हतं अश्रोत्रिये दानं अनाचारं हतं कुलम्
विश्वासो गुरुवाक्येषु स्वस्मिन् दीनत्वभावना । मनोदोषजयश्चैव कथायां निश्चला मतिः
एवं आदि कृतं चेत् स्यात् तदा वै श्रवणे फलम् । पुनः श्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम्
गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयम् । एवमुक्त्वा ययुः सर्वे वैकुण्ठ हरिकीर्तनाः
श्रवणो मासि गोकर्णः कथां ऊचे तथा पुनः । सप्तरात्रवतीं भूयः श्रवणं तैः कृतं पुनः
कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद
विमानैः सह भक्तैश्च हरिराविर्बभूव ह । जयशब्दा नमःशब्दाः तत्रासन् बहवस्तदा
पाञ्चजन्य ध्वनिं चक्रे हर्षात् तत्र स्वयं हरिः । गोकर्णं तु समालिंग्य अकरोत् स्वसदृषं हरिः
श्रोतॄन् अन्यान् घनश्यामान् पीतकौशेयवाससः । कीरीटिनः कुण्डलिनः तथा चक्रे हरिः क्षणात्