सांबविवाहः; बलरामेण हस्तिनापुरकर्षणं च श्रीशुक उवाच - ( अनुष्टुप् ) दुर्योधनसुतां राजन् लक्ष्मणां समितिंजयः । स्वयंवरस्थामहरत् सांबो जाम्बवतीसुतः
कौरवाः कुपिता ऊचुः दुर्विनीतोऽयमर्भकः । कदर्थीकृत्य नः कन्यां अकामां अहरद् बलात्
बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः । येऽस्मत् प्रसादोपचितां दत्तां नो भुञ्जते महीम्
निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः । भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः
इति कर्णः शलो भूरिः यज्ञकेतुः सुयोधनः । साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः
दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः । प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः
तं ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठेति भाषिणः । आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन्
सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः । नामृष्यत् तदचिन्त्यार्भः सिंह क्षुद्रमृगैरिव
विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः । कर्णादीन् षड्रथान् वीरः तावद्भिर्युगपत् पृथक्
चतुर्भिश्चतुरो वाहान् एकैकेन च सारथीन् । रथिनश्च महेष्वासान् तस्य तत्तेऽभ्यपूजयन्
तं तु ते विरथं चक्रुः चत्वारश्चतुरो हयान् । एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम्
तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि । कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन्
तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः । कुरून् प्रत्युद्यमं चक्रुः उग्रसेनप्रचोदिताः
सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् । नैच्छय् कुरूणां वृष्णीनां कलिं कलिमलापहः
जगाम हास्तिनपुरं रथेनादित्यवर्चसा । ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः
गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः । उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया
सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् । दुर्योधनं च विधिवद् राममागतमब्रवीत्
तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् । तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः
तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् । तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम्
बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् । परस्परमथो रामो बभाषेऽविक्लवं वचः
उग्रसेनः क्षितीशेशो यद् व आज्ञापयत् प्रभुः । तद् अव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम्
यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् । अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया
वीर्यशौर्यबलोन्नद्धं आत्मशक्तिसमं वचः । कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः
अहो महच्चित्रमिदं कालगत्या दुरत्यया । आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम्
एते यौनेन संबद्धाः सहशय्यासनाशनाः । वृष्णयस्तुल्यतां नीता अस्मद् दत्तनृपासनाः
चामरव्यजने शङ्खं आतपत्रं च पाण्डुरम् । किरीटमासनं शय्यां भुञ्जन्त्यस्मदुपेक्षया
( इंद्रवंशा ) अलं यदूनां नरदेवलाञ्छनैः दातुः प्रतीपैः फणिनामिवामृतम् । येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत
( अनुष्टुप् ) कथमिन्द्रोऽपि कुरुभिः भीष्मद्रोणार्जुनादिभिः । अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः
श्रीबादरायणिरुवाच - जन्मबन्धुश्रीयोन्नद्ध मदास्ते भरतर्षभ । आश्राव्य रामं दुर्वाच्यं असभ्याः पुरमाविशन्
दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः । अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः