य एनं श्रावयेन्मर्त्य उत्तमःश्लोकविक्रमम्। समाहितो वा शृणुयात्सर्वपापैः प्रमुच्यते
रैवतके द्विविद्वधः - श्रीराजोवाच - ( अनुष्टुप् ) भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः । अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभुः
श्रीशुक उवाच - नरकस्य सखा कश्चिद् द्विविदो नाम वानरः । सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान्
सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् । पुरग्रामाकरान् घोषान् अदहद् वह्निमुत्सृजन्
क्वचित् स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् । आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः
क्वचित् समुद्रमध्यस्थो दोर्भ्यां उत्क्षिप्य तज्जलम् । देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत्
आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन् । अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः
पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः । निक्षिप्य चाप्यधाच्छैलैः पेशस्क्कास्कारीव कीटकम्
एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्त्रियः । श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ
तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम् । सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम्
गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् । विभ्राजमानं वपुषा प्रभिन्नमिव वारणम्
दुष्टः शाखामृगः शाखां आरूढः कंपयन् द्रुमान् । चक्रे किलकिलाशब्दं आत्मानं संप्रदर्शयन्
तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः । हास्यप्रिया विजहसुः बलदेवपरिग्रहाः
ता हेलयामास कपिः भूक्षेपैः संमुखादिभिः । दर्शयन् स्वगुदं तासां रामस्य च निरीक्षितः
तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः । स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः
गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन् । निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद् बलम्
कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः । तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान्
क्रुद्धो मुसलमादत्त हलं चारिजिघांसया । द्विविदोऽपि महावीर्यः शालमुद्यम्य पाणिना
अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् । तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा
प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् । मूषलाहतमस्तिष्को विरेजे रक्तधारया
गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् । पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा
तेनाहनत् सुसङ्क्रुद्धः तं बलः शतधाच्छिनत् । ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत्
एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः । आकृष्य सर्वतो वृक्षान् निर्वृक्षं अकरोद् वनम्
ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः । तत्सर्वं चूर्णयामास लीलया मुसलायुधः
स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः । आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत्
यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गले । जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद् रुधिरं वमन्
चकम्पे तेन पतता सटङ्कः सवनस्पतिः । पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि
जयशब्दो नमःशब्दः साधु साध्विति चाम्बरे । सुरसिद्धमुनीन्द्राणां आसीत् कुसुमवर्षिणाम्
एवं निहत्य द्विविदं जगद्व्यतिकरावहम् । संस्तूयमानो भगवान् जनैः स्वपुरमाविशत्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विविदवधो नाम सप्तषष्टितमोऽध्यायः