त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम्। व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम्
इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम्। शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः
तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः। न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः
एवं मत्सरिणम्हत्वा पौण्ड्रकं ससखं हरिः। द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः
स नित्यं भगवद्ध्यान प्रध्वस्ताखिलबन्धनः। बिभ्राणश्च हरे राजन्स्वरूपं तन्मयोऽभवत्
शिरः पतितमालोक्य राजद्वारे सकुण्डलम्। किमिदं कस्य वा वक्त्रमिति संशिशिरे जनाः
राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः। पौराश्च हा हता राजन्नाथ नाथेति प्रारुदन्
सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पतेः। निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः
इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम्। सुदक्षिणोऽर्चयामास परमेण समाधिना
प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद्विभुः। पितृहन्तृवधोपायं स वव्रे वरमीप्सितम्
दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम्। अभिचारविधानेन स चाग्निः प्रमथैर्वृतः
साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः। इत्यादिष्टस्तथा चक्रेकृष्णायाभिचरन्व्रती
ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः। तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः
दंष्ट्रोग्रभ्रुकुटीदण्ड कठोरास्यः स्वजिह्वया। आलिहन्सृक्वणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत्
पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम्। सोऽयधावद्वृतो भूतैर्द्वारकां प्रदहन्दिशः
तमाभिचारदहनमायान्तं द्वारकौकसः। विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा
अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः। त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम्
श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम्। शरण्यः सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम्
सर्वस्यान्तर्बहिःसाक्षी कृत्यां माहेश्वरीं विभुः। विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत्
तत्सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभम्। स्वतेजसा खं ककुभोऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निमार्दयत्
कृत्यानलः प्रतिहतः स रथान्गपाणेर्। अस्त्रौजसा स नृप भग्नमुखो निवृत्तः। वाराणसीं परिसमेत्य सुदक्षिणं तं। सर्त्विग्जनं समदहत्स्वकृतोऽभिचारः
चक्रं च विष्णोस्तदनुप्रविष्टं वाराणसीं साट्टसभालयापणाम्। सगोपुराट्टालककोष्ठसङ्कुलां सकोशहस्त्यश्वरथान्नशालिनीम्
दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम्। भूयः पार्श्वमुपातिष्ठत्कृष्णस्याक्लिष्टकर्मणः
य एनं श्रावयेन्मर्त्य उत्तमःश्लोकविक्रमम्। समाहितो वा शृणुयात्सर्वपापैः प्रमुच्यते
रैवतके द्विविद्वधः - श्रीराजोवाच - ( अनुष्टुप् ) भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः । अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभुः
श्रीशुक उवाच - नरकस्य सखा कश्चिद् द्विविदो नाम वानरः । सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान्
सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् । पुरग्रामाकरान् घोषान् अदहद् वह्निमुत्सृजन्
क्वचित् स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् । आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः
क्वचित् समुद्रमध्यस्थो दोर्भ्यां उत्क्षिप्य तज्जलम् । देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत्
आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन् । अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः