यानि त्वमस्मच्चिह्नानि मौढ्याद्बिभर्षि सात्वत। त्यक्त्वैहि मां त्वं शरणं नो चेद्देहि ममाहवम्
श्रीशुक उवाच। कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः। उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा
उवाच दूतं भगवान्परिहासकथामनु। उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे
मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः। शयिष्यसे हतस्तत्र भविता शरणं शुनाम्
इति दूतस्तमाक्षेपं स्वामिने सर्वमाहरत्। कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह
पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः। अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद्द्रुतम्
तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप। अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हइः!
शङ्खार्यसिगदाशार्ङ्ग श्रीवत्साद्युपलक्षितम्। बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम्
कौशेयवाससी पीते वसानं गरुडध्वजम्। अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम्
दृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममास्थितम्। यथा नटं रङ्गगतं विजहास भृशं हरीः
शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः। असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम्
कृष्णस्तु तत्पौण्ड्रककाशिराजयोर्। बलं गजस्यन्दनवाजिपत्तिमत्। गदासिचक्रेषुभिरार्दयद्भृशं। यथा युगान्ते हुतभुक्पृथक्प्रजाः
आयोधनं तद्र थवाजिकुञ्जर द्विपत्खरोष्ट्रैररिणावखण्डितैः। बभौ चितं मोदवहं मनस्विनामाक्रीडनं भूतपतेरिवोल्बणम्
अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद्भवान्। दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते
त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम्। व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम्
इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम्। शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः
तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः। न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः
एवं मत्सरिणम्हत्वा पौण्ड्रकं ससखं हरिः। द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः
स नित्यं भगवद्ध्यान प्रध्वस्ताखिलबन्धनः। बिभ्राणश्च हरे राजन्स्वरूपं तन्मयोऽभवत्
शिरः पतितमालोक्य राजद्वारे सकुण्डलम्। किमिदं कस्य वा वक्त्रमिति संशिशिरे जनाः
राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः। पौराश्च हा हता राजन्नाथ नाथेति प्रारुदन्
सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पतेः। निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः
इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम्। सुदक्षिणोऽर्चयामास परमेण समाधिना
प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद्विभुः। पितृहन्तृवधोपायं स वव्रे वरमीप्सितम्
दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम्। अभिचारविधानेन स चाग्निः प्रमथैर्वृतः
साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः। इत्यादिष्टस्तथा चक्रेकृष्णायाभिचरन्व्रती
ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः। तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः
दंष्ट्रोग्रभ्रुकुटीदण्ड कठोरास्यः स्वजिह्वया। आलिहन्सृक्वणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत्
पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम्। सोऽयधावद्वृतो भूतैर्द्वारकां प्रदहन्दिशः
तमाभिचारदहनमायान्तं द्वारकौकसः। विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा