एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् । उवाच चकिता वाचं पतिता पादयोर्नृप ॥ 10.65.
राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पते ॥ 10.65.
परं भावं भगवतो भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ 10.65.
ततो व्यमुञ्चद्यमुनां याचितो भगवान् बलः । विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ 10.65.
कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे । भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ 10.65.
वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् । रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ 10.65.
अद्यापि दृश्यते राजन् यमुनाकृष्टवर्त्मना । बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ 10.65.
एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ 10.65.
अथ षट्षष्टितमोऽध्यायः । श्रीशुक उवाच। नन्दव्रजं गते रामे करूषाधिपतिर्नृप। वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत्
त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः। इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम्
दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने। द्वारकायां यथा बालो नृपो बालकृतोऽबुधः
दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम्। कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत्
वासुदेवोऽवतीर्णोहमेक एव न चापरः। भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज
यानि त्वमस्मच्चिह्नानि मौढ्याद्बिभर्षि सात्वत। त्यक्त्वैहि मां त्वं शरणं नो चेद्देहि ममाहवम्
श्रीशुक उवाच। कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः। उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा
उवाच दूतं भगवान्परिहासकथामनु। उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे
मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः। शयिष्यसे हतस्तत्र भविता शरणं शुनाम्
इति दूतस्तमाक्षेपं स्वामिने सर्वमाहरत्। कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह
पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः। अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद्द्रुतम्
तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप। अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हइः!
शङ्खार्यसिगदाशार्ङ्ग श्रीवत्साद्युपलक्षितम्। बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम्
कौशेयवाससी पीते वसानं गरुडध्वजम्। अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम्
दृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममास्थितम्। यथा नटं रङ्गगतं विजहास भृशं हरीः
शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः। असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम्
कृष्णस्तु तत्पौण्ड्रककाशिराजयोर्। बलं गजस्यन्दनवाजिपत्तिमत्। गदासिचक्रेषुभिरार्दयद्भृशं। यथा युगान्ते हुतभुक्पृथक्प्रजाः
आयोधनं तद्र थवाजिकुञ्जर द्विपत्खरोष्ट्रैररिणावखण्डितैः। बभौ चितं मोदवहं मनस्विनामाक्रीडनं भूतपतेरिवोल्बणम्
अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद्भवान्। दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते
त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम्। व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम्
इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम्। शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः
तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः। न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः