अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् । सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः
( वंशस्था ) स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैरुक्षितमार्गचत्वराम् । विवेश शङ्खानकदुन्दुभिस्वनैः अभ्युद्यतः पौरसुहृद्द्विजातिभिः
( अनुष्टुप् ) य एवं कृष्णविजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः
श्रीशुक उवाच बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः । सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ 10.65.
परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च । रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ 10.65.
चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः । इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ 10.65.
गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः । यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ 10.65.
समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः । विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ 10.65.
पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ 10.65.
कच्चिन्नो बान्धवा राम सर्वे कुशलमासते । कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥ 10.65.
दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः । निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ 10.65.
गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः । कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ 10.65.
कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः । अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति । अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ 10.65.
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄनपि । यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ 10.65.
ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः । कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ 10.65.
कथं नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य बुधाः पुरस्त्रियः । गृह्णन्ति वै चित्रकथस्य सुन्दर स्मितावलोकोच्छ्वसितस्मरातुराः ॥ 10.65.
* किं नस्तत्कथया गोप्यः कथाः कथयतापराः । यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ 10.65.
इति प्रहसितं शौरेर्जल्पितं चारुवीक्षितम् । गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ 10.65.
सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः । सान्त्वयामास भगवान्नानानुनयकोविदः ॥ 10.65.
द्वौ मासौ तत्र चावात्सीन्मधुं माधवं एव च । रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ 10.65.
पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना । यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ 10.65.
वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् । पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ 10.65.
तं गन्धं मधुधाराया वायुनोपहृतं बलः । आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥ 10.65.
उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले । रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥ 10.65.
नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा । गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥ 10.65.
उपगीयमानचरितो वनिताभिर्हलायुध । वनेषु व्यचरत्क्षीवो मदविह्वललोचनः ॥ 10.65.
स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया । बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ 10.65.
स आजुहाव यमुनां जलक्रीडार्थमीश्वरः । निजं वाक्यमनादृत्य मत्त इत्यापगां बलः ॥ 10.65.
अनागतां हलाग्रेण कुपितो विचकर्ष ह । पापे त्वं मामवज्ञाय यन्नायासि मयाहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ 10.65.