देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् । विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन्
अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः । सर्वात्मना प्रपन्नास्त्वां आत्मानं प्रेष्ठमीश्वरम्
( मिश्र ) तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् । अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम्
अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव । संपाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः
श्रीभगवानुवाच - ( अनुष्टुप् ) यदात्थ भगवन् त्वं नः करवाम प्रियं तव । भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम्
अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः । प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः
दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच्च भारायितं भुवः
चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः । पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः
इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत्
अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् । सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः
( वंशस्था ) स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैरुक्षितमार्गचत्वराम् । विवेश शङ्खानकदुन्दुभिस्वनैः अभ्युद्यतः पौरसुहृद्द्विजातिभिः
( अनुष्टुप् ) य एवं कृष्णविजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः
श्रीशुक उवाच बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः । सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ 10.65.
परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च । रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ 10.65.
चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः । इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ 10.65.
गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः । यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ 10.65.
समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः । विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ 10.65.
पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ 10.65.
कच्चिन्नो बान्धवा राम सर्वे कुशलमासते । कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥ 10.65.
दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः । निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ 10.65.
गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः । कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ 10.65.
कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः । अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति । अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ 10.65.
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄनपि । यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ 10.65.
ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः । कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ 10.65.
कथं नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य बुधाः पुरस्त्रियः । गृह्णन्ति वै चित्रकथस्य सुन्दर स्मितावलोकोच्छ्वसितस्मरातुराः ॥ 10.65.
* किं नस्तत्कथया गोप्यः कथाः कथयतापराः । यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ 10.65.
इति प्रहसितं शौरेर्जल्पितं चारुवीक्षितम् । गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ 10.65.
सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः । सान्त्वयामास भगवान्नानानुनयकोविदः ॥ 10.65.