अतः पुम्भिः द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिः हरितोषणम्
तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा
यद् अदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम्
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात्
श्रृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवति उत्तमश्लोके भक्तिर्भवति नैष्ठिकी
तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति
एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत् तत्त्वविज्ञानं मुक्तसङ्गस्य जायते
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे
अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम्
(वसंततिलका) सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोः नृणां स्युः
(अनुष्टुप्) पार्थिवाद् दारुणो धूमः तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम्
भेजिरे मुनयोऽथाग्रे भगवन्तं अधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह
मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः
रजस्तमःप्रकृतयः समशीला भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः
वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योगा वासुदेवपराः क्रियाः
वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरो धर्मो वासुदेवपरा गतिः
स एवेदं ससर्जाग्रे भगवान् आत्ममायया । सद् असद् रूपया चासौ गुणमय्यागुणो विभुः
तया विलसितेष्वेषु गुणेषु गुणवानिव । अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः
यथा ह्यवहितो वह्निः दारुष्वेकः स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान्
असौ गुणमयैर्भावैः भूत सूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्
भावयत्येष सत्त्वेन लोकान्वै लोकभावनः । लीलावतारानुरतो देवतिर्यङ् नरादिषु
{श्रीमद्भागवतपुराणम्/स्कन्धः१} सूत उवाच। (अनुष्टुप्) जगृहे पौरुषं रूपं भगवान् महदादिभिः। संभूतं षोडशकलं आदौ लोकसिसृक्षया
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः। नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः। तद् वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्
(इंद्रवंशा) पश्यन्त्यदोरूपमदभ्रचक्षुषा। सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्
(अनुष्टुप्) एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः
स एव प्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम्
द्वितीयं तु भवायास्य रसातलगतां महीम्। उद्धरिष्यन् उपादत्त यज्ञेशः सौकरं वपुः
तृतीयं ऋषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः