प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् । द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः
पृथग्विधानि प्रायुङ्क्त पिणाक्यस्त्राणि शाङ्र्गिणे । प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च
मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिः जघानासिगदेषुभिः
स्कन्दः प्रद्युम्नबाणौघैः अर्द्यमानः समन्ततः । असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात्
कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्दितौ । दुद्रुवुस्तदनीकनि हतनाथानि सर्वतः
विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः । कृष्णं अभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम्
धनूंष्याकृष्य युगपद् बाणः पञ्चशतानि वै । एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः
तानि चिच्छेद भगवान् धनूंसि युगपद्धरिः । सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत्
तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया
ततस्तिर्यङ्मुखो नग्नां अनिरीक्षन् गदाग्रजः । बाणश्च तावद् विरथः छिन्नधन्वाविशत् पुरम्
विद्राविते भूतगणे ज्वरस्तु त्रीशिरास्त्रिपात् । अभ्यधावत दाशार्हं दहन्निव दिशो दश
अथ नारायणः देवः तं दृष्ट्वा व्यसृजज्ज्वरम् । माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ
माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः । अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः
ज्वर उवाच - ( मिश्र ) नमामि त्वानन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् । विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम्
कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्सङ्घातो बीजरोहप्रवाहः त्वन्मायैषा तन्निषेधं प्रपद्ये
नानाभावैर्लीलयैवोपपन्नैः देवान् साधून् लोकसेतून्बिभर्षि । हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः
तप्तोऽहं ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण । तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन् यावदाशानुबद्धाः
श्रीभगवानुवाच - ( अनुष्टुप् ) त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम्
इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः । बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम्
ततो बाहुसहस्रेण नानायुधधरोऽसुरः । मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप
तस्यास्यतोऽस्त्राण्यसकृत् चक्रेण क्षुरनेमिना । चिच्छेद भगवान्बाहून् शाखा इव वनस्पतेः
बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः । भक्तानकम्प्युपव्रज्य चक्रायुधमभाषत
श्रीरुद्र उवाच - त्वं हि ब्रह्म परं ज्योतिः गूढं ब्रह्मणि वाङ्मये । यं पश्यन्त्यमलात्मान आकाशमिव केवलम्
( मिश्र ) नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी । चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः
रोमाणि यस्यौषधयोऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः । प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः
तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो हिताय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त
त्वमेक आद्यः पुरुषोऽद्वितीयः तुर्यः स्वदृग् हेतुरहेतुरीशः । प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै
यथैव सूर्यः पिहितश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति । एवं गुणेनापिहितो गुणांस्त्वम् आत्मप्रदीपो गुणिनश्च भूमन्
( अनुष्टुप् ) यन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे