तमहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे
चित्रलेखोवाच - व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तं आनेष्ये वरं यस्ते मनोहर्ता तमादिश
इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत्
मनुजेषु च सा वृष्नीन् शूरं आनकदुन्दुभिम् । व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते
चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्णपालिताम्
तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत्
सा च तं सुन्दरवरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम्
परार्ध्यवासःस्रग्गन्ध धूपदीपासनादिभिः । पानभोजन भक्ष्यैश्च वाक्यैः शुश्रूषणार्चितः
गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया । नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः
तां तथा यदुवीरेण भुज्यमानां हतव्रताम् । हेतुभिर्लक्षयाञ्चक्रुः आप्रीतां दुरवच्छदैः
भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् । विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम्
अनपायिभिरस्माभिः गुप्तायाश्च गृहे प्रभो । कन्याया दूषणं पुम्भिः दुष्प्रेक्ष्याया न विद्महे
ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः । त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम्
( मिश्र ) कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् । बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम्
दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् । बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः
स तं प्रविष्टं वृतमाततायिभिः भटैरनीकैरवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया
जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत् । ते हन्यमाना भवनाद् विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः
तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह । ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः
श्रीकृष्णबाणासुरसंग्रामः; तत्र माहेश्वरज्वरेण माहेश्वरेण च कृता भगवत् स्तुतिः - श्रीशुक उवाच - ( अनुष्टुप् ) अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम्
नारदात् तदुपाकर्ण्य वार्तां बद्धस्य कर्म च । प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः
प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः
अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम् । रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभाः
भज्यमानपुरोद्यान प्राकाराट्टालगोपुरम् । प्रेक्षमाणो रुषाविष्टः तुल्यसैन्योऽभिनिर्ययौ
बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः । आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः
आसीत् सुतुमुलं युद्धं अद्भुतं रोमहर्षणम् । कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि
कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः । साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः
ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः । गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन्
शङ्करानुचरान् शौरिः भूतप्रमथगुह्यकान् । डाकिनीर्यातुधानांश्च वेतालान् सविनायकान्