प्रेत उवाच - गयाश्राद्धशतेनापि मुक्तिर्मे न भविष्यति । उपायं अपरं कंचित् त्वं विचारय साम्प्रतम्
इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः । शतश्राद्धैर्न मुक्तिश्चेत् असाध्यं मोचनं तव
इदानीं तु निजं स्थानं आतिष्ठ प्रेत निर्भयः । त्वन्मुक्तिसाधकं किंचित् आचरिष्ये विचार्य च
धुन्धुकारी निजस्थानं तेनादिष्टस्ततो गतः । गोकर्णश्चिन्तयामास तां रात्रिं न तदध्यगात्
प्रातस्तं आगतं दृष्ट्वा लोकाः प्रीत्याः समागताः । तत्सर्वं कथितं तेन यत् जातं च यथा निशि
विद्वांसो योगनिष्ठाश्च ज्ञानिनो ब्रह्मवादिनः । तन्मुक्तिं नैव तेऽपश्यन् पश्यन्तः शास्त्रसंचयान्
ततः सर्वैः सूर्यवाक्यं तन्मुक्तौ स्थापितं परम् । गोकर्णः स्तम्भनं चक्रे सूर्यवेगस्य वै तदा
तुभ्यं नमो जगत् साक्षिन् ब्रूहि मे मुक्तिहेतुकम् । तत् श्रुत्वा दूरतः सूर्यः स्फुटमित्यभ्यभाषत
श्रीमद्भागवतान् मुक्तिः सप्ताहं वाचनं कुरु । इति सूर्यवचः सर्वैः धर्मरूपं तु विश्रुतम्
सर्वेऽब्रुवन् प्रयत्नेन कर्तव्यं सुकरं त्विदम् । गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः
तत्र संश्रवणार्थाय देशग्रामाज्जना ययुः । पङ्ग्वन्ध वृद्धमन्दाश्च तेऽपि पापक्षयाय वै
समाजस्तु महाञ्जातो देवविस्मयकारकः । यदैवासनमास्थाय गोकर्णोऽकथयत्कथाम्
स प्रेतोऽपि तदाऽऽयातः स्थानं पश्यन् इतस्ततः । सप्तग्रन्थियुतं तत्र अपश्यत् कीचकमुछ्रितम्
तन्मूलच्छिद्रमाविश्य श्रवणार्थं स्थितौ ह्यसौ । वातरूपी स्थितिं कर्तुं अशक्तो वंशमाविशत्
वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य सः । प्रथमस्कन्धतः स्पष्टं आख्यानं धेनुजोऽकरत्
दिनान्ते रक्षिता गाथा तदा चित्रं बभूव ह । वंशैकग्रन्थिभेदोऽभूत् सशब्दं पश्यतां सताम्
द्वितीयेऽह्नि तथा सायं द्वितीयग्रन्थिभेदनम् । तृतीयेऽह्नि तथा सायं तृतीयग्रन्थिभेदनम्
एवं सप्तदिनैश्चैव सप्तग्रन्थिविभेदनम् । कृत्वा स द्वादशस्कन्ध श्रवणात् प्रेततां जहौ
दिव्यरूपधरो जातः तुलसीदाममंडितः । पीतवासा घनश्यमो मुकुटी कुण्डलान्वितः
ननाम भ्रातरं सद्यो गोकर्णं इति चाब्रवीत् । त्वयाहं मोचितो बन्धो कृपया प्रेतकश्मलात्
धन्या भागवती वार्ता प्रेतपीडाविनाशिनी । सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः
कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते । अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति
आर्द्रं शुष्कं लघु स्थूलं वाङ्मनः कर्मभिः कृतम् । श्रवणं विदहेत्पापं पावकं समिधो यथा
अस्मिन् वै भारते वर्षे सूरिभिः देवसंसदि । अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम्
किं मोहतो रक्षितेन सुपुष्टेन बलीयसा । अध्रुवेण शरीरेण शुकशास्त्रकथां विना
अस्थिस्तम्भं स्नायुबद्धं मांसशोणितलेपितम् । चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः
जराशोकविपाकार्तं रोगमन्दिरमातुरम् । दूष्पूरं दुर्धरं दुष्टं सदोषं क्षणभंगुरम्
कृमिविड् भस्म संज्ञान्तं शरीरं इति वर्णितम् । अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेत् न हि
यत्प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति । तदीयरससम्पुष्टे काये का नाम नित्यता
सप्ताहश्रवणात् लोके प्राप्यते निकटे हरिः । अतो दोषनिवृत्त्यर्थं एतद् एव हि साधनम्