नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् । पुंसां अपूर्णकामानां कामपूरामराङ्घ्रिपम्
दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम्
कण्डूत्या निभृतैर्दोर्भिः युयुत्सुर्दिग्गजानहम् । आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः
तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा । त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते
इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप । प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्राग् अदृष्टश्रुतेन सा
सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम्
बाणस्य मंत्री कुम्भाण्डः चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीं ऊषां कौतूहलसमन्विता
कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः । हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये
दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः । पीतवासा बृहद् बाहुः योषितां हृदयंगमः
तमहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे
चित्रलेखोवाच - व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तं आनेष्ये वरं यस्ते मनोहर्ता तमादिश
इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत्
मनुजेषु च सा वृष्नीन् शूरं आनकदुन्दुभिम् । व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते
चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्णपालिताम्
तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत्
सा च तं सुन्दरवरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम्
परार्ध्यवासःस्रग्गन्ध धूपदीपासनादिभिः । पानभोजन भक्ष्यैश्च वाक्यैः शुश्रूषणार्चितः
गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया । नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः
तां तथा यदुवीरेण भुज्यमानां हतव्रताम् । हेतुभिर्लक्षयाञ्चक्रुः आप्रीतां दुरवच्छदैः
भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् । विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम्
अनपायिभिरस्माभिः गुप्तायाश्च गृहे प्रभो । कन्याया दूषणं पुम्भिः दुष्प्रेक्ष्याया न विद्महे
ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः । त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम्
( मिश्र ) कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् । बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम्
दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् । बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः
स तं प्रविष्टं वृतमाततायिभिः भटैरनीकैरवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया
जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत् । ते हन्यमाना भवनाद् विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः
तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह । ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः