तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः। सङ्कर्षणं परिहसन्बभाषे कालचोदितः
नैवाक्षकोविदा यूयं गोपाला वनगोचराः। अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः
रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः। क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि
कलिङ्गराजं तरसा गृहीत्वा दशमे पदे। दन्तानपातयत्क्रुद्धो योऽहसद्विवृतैर्द्विजैः
अन्ये निर्भिन्नबाहूरु शिरसो रुधिरोक्षिताः। राजानो दुद्रवुर्भीता बलेन परिघार्दिताः
निहते रुक्मिणि श्याले नाब्रवीत्साध्वसाधु वा। रक्मिणीबलयो राजन्स्नेहभङ्गभयाद्धरिः
ततोऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम्। रामादयो भोजकटाद्दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः
ऊषा-अनिरुद्ध समागमः; अनिरुद्धस्य बंधनं च - श्रीराजोवाच - ( अनुष्टुप् ) बाणस्य तनयां ऊषां उपयेमे यदूत्तमः । तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् । एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि
श्रीशुक उवाच - बाणः पुत्रशतज्येष्ठो बलेरासीन् महात्मनः । येन वामनरूपाय हरयेऽदायि मेदिनी
तस्यौरसः सुतो बानः शिवभक्तिरतः सदा । मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः
शोणिताख्ये पुरे रम्ये स राज्यं अकरोत्पुरा । तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः । सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम्
भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः । वरेण छन्दयामास स तं वव्रे पुराधिपम्
स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः । किरीटेनार्कवर्णेन संस्पृशन् तत्पदाम्बुजम्
नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् । पुंसां अपूर्णकामानां कामपूरामराङ्घ्रिपम्
दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम्
कण्डूत्या निभृतैर्दोर्भिः युयुत्सुर्दिग्गजानहम् । आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः
तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा । त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते
इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप । प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्राग् अदृष्टश्रुतेन सा
सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम्
बाणस्य मंत्री कुम्भाण्डः चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीं ऊषां कौतूहलसमन्विता
कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः । हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये
दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः । पीतवासा बृहद् बाहुः योषितां हृदयंगमः
तमहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे
चित्रलेखोवाच - व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तं आनेष्ये वरं यस्ते मनोहर्ता तमादिश
इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत्
मनुजेषु च सा वृष्नीन् शूरं आनकदुन्दुभिम् । व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते
चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्णपालिताम्
तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत्