तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः। अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन्गृणामि ते
चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान्। सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः
चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः। प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः
भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा। चन्द्र भानुर्बृहद्भानुरतिभानुस्तथाष्टमः
श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश। साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित्
विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः। जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः
वीरश्चन्द्रो ऽश्वसेनश्च चित्रगुर्वेगवान्वृषः। आमः शङ्कुर्वसुः श्रीमान्कुन्तिर्नाग्नजितेः सुताः
श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः। शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः
प्रघोषो गात्रवान्सिंहो बलः प्रबल ऊर्ध्वगः। माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः
वृको हर्षोऽनिलो गृध्रो वर्धनोऽन्नाद एव च। महाशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः
सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणोऽरिजित्। जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः
दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः। प्रद्युम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां महाबलः । पुत्र्यां तु रुक्मिणो राजन्नाम्ना भोजकटे पुरे
एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप। मातरः कृष्णजातीनां सहस्राणि च षोडश
श्रीराजोवाच। कथं रुक्म्यरिपुत्राय प्रादाद्दुहितरं युधि। कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते। एतदाख्याहि मे विद्वन्द्विषोर्वैवाहिकं मिथः
अनागतमतीतं च वर्तमानमतीन्द्रियम्। विप्रकृष्टं व्यवहितं सम्यक्पश्यन्ति योगिनः
श्रीशुक उवाच। वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया। राज्ञः समेतान्निर्जित्य जहारैकरथो युधि
यद्यप्यनुस्मरन्वैरं रुक्मी कृष्णावमानितः। व्यतरद्भागिनेयाय सुतां कुर्वन्स्वसुः प्रियम्
रुक्मिण्यास्तनयां राजन्कृतवर्मसुतो बली। उपयेमे विशालाक्षीं कन्यां चारुमतीं किल
दौहित्रायानिरुद्धाय पौत्रीं रुक्म्याददाद्धरेः। रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया । जानन्नधर्मं तद्यौनं स्नेहपाशानुबन्धनः
तस्मिन्नभ्युदये राजन्रुक्मिणी रामकेशवौ। पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः
तस्मिन्निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः। दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय
अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत्। इत्युक्तो बलमाहूय तेनाक्षैर्रुक्म्यदीव्यत
शतं सहस्रमयुतं रामस्तत्राददे पणम्। तं तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम्। दन्तान्सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः
ततो लक्षं रुक्म्यगृह्णाद्ग्लहं तत्राजयद्बलः। जितवानहमित्याह रुक्मी कैतवमाश्रितः
मन्युना क्षुभितः श्रीमान्समुद्र इव पर्वणि। जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे
तं चापि जितवान्रामो धर्मेण छलमाश्रितः। रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति
तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः। धर्मतो वचनेनैव रुक्मी वदति वै मृषा
तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः। सङ्कर्षणं परिहसन्बभाषे कालचोदितः
नैवाक्षकोविदा यूयं गोपाला वनगोचराः। अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः
रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः। क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि