तं त्वानुरूपमभजं जगतामधीशम्। आत्मानमत्र च परत्र च कामपूरम्। स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या। यो वै भजन्तमुपयात्यनृतापवर्गः
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः। स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः। यत्कर्णमूलमरिकर्षण नोपयायाद्। युष्मत्कथा मृडविरिञ्चसभासु गीता
त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर्। मांसास्थिरक्तकृमिविट्कफपित्तवातम्। जीवच्छवं भजति कान्तमतिर्विमूढा। या ते पदाब्जमकरन्दमजिघ्रती स्त्री
अस्त्वम्बुजाक्ष मम ते चरणानुराग। आत्मन्रतस्य मयि चानतिरिक्तदृष्टेः। यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो। मामीक्षसे तदु ह नः परमानुकम्पा
नैवालीकमहं मन्ये वचस्ते मधुसूदन। अम्बाया एव हि प्रायः कन्यायाः स्याद्रतिः क्वचित्
व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम्। बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः
श्रीभगवानुवाच। साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्री प्रलम्भिता। मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि
यान्यान्कामयसे कामान्मय्यकामाय भामिनि। सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यद
उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे। यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता
ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया। कामात्मानोऽपवर्गेशं मोहिता मम मायया
मां प्राप्य मानिन्यपवर्गसम्पदं। वाञ्छन्ति ये सम्पद एव तत्पतिम्। ते मन्दभागा निरयेऽपि ये नृणां। मात्रात्मकत्वात्निरयः सुसङ्गमः
दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः। सुदुष्करासौ सुतरां दुराशिषो ह्यसुंभराया निकृतिं जुषः स्त्रियाः
न त्वादृशीम्प्रणयिनीं गृहिणीं गृहेषु। पश्यामि मानिनि यया स्वविवाहकाले। प्राप्तान्नृपान्न विगणय्य रहोहरो मे। प्रस्थापितो द्विज उपश्रुतसत्कथस्य
भ्रातुर्विरूपकरणं युधि निर्जितस्य। प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम्। दुःखं समुत्थमसहोऽस्मदयोगभीत्या। नैवाब्रवीः किमपि तेन वयं जितास्ते
दूतस्त्वयात्मलभने सुविविक्तमन्त्रः। प्रस्थापितो मयि चिरायति शून्यमेतत्। मत्वा जिहास इदं अङ्गमनन्ययोग्यं। तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः
श्रीशुक उवाच। एवं सौरतसंलापैर्भगवान्जगदीश्वरः। स्वरतो रमया रेमे नरलोकं विडम्बयन्
तथान्यासामपि विभुर्गृहेषु गृहवानिव। आस्थितो गृहमेधीयान्धर्मांल्लोकगुरुर्हरिः
अथैकषष्टितमोऽध्यायः 10.61 श्रीशुक उवाच। एकैकशस्ताः कृष्णस्य पुत्रान्दश दशाबलाः। अजीजनन्ननवमान्पितुः सर्वात्मसम्पदा
गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम्। प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः
चार्वब्जकोशवदनायतबाहुनेत्र। सप्रेमहासरसवीक्षितवल्गुजल्पैः। सम्मोहिता भगवतो न मनो विजेतुं। स्वैर्विभ्रमैः समशकन्वनिता विभूम्नः
स्मायावलोकलवदर्शितभावहारि। भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः। पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर्। यस्येन्द्रियं विमथितुं करणैर्न शेकुः
इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता। ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम्। भेजुर्मुदाविरतमेधितयानुराग। हासावलोकनवसङ्गमलालसाद्यम्
प्रत्युद्गमासनवरार्हणपादशौच। ताम्बूलविश्रमणवीजनगन्धमाल्यैः। केशप्रसारशयनस्नपनोपहार्यैः। दासीशता अपि विभोर्विदधुः स्म दास्यम्
तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः। अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन्गृणामि ते
चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान्। सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः
चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः। प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः
भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा। चन्द्र भानुर्बृहद्भानुरतिभानुस्तथाष्टमः
श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश। साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित्
विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः। जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः
वीरश्चन्द्रो ऽश्वसेनश्च चित्रगुर्वेगवान्वृषः। आमः शङ्कुर्वसुः श्रीमान्कुन्तिर्नाग्नजितेः सुताः