वैदर्भ्येतदविज्ञाय त्वया दीर्घसमीक्षया। वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा
अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम्। येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे
चैद्यशाल्वजरासन्ध दन्तवक्त्रादयो नृपाः। मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः
तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये। आनितासि मया भद्रे तेजोपहरता सताम्
उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः। आत्मलब्ध्यास्महे पूर्णा गेहयोर्ज्योतिरक्रियाः
श्रीशुक उवाच। एतावदुक्त्वा भगवानात्मानं वल्लभामिव। मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत्
इति त्रिलोकेशपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम्। आश्रुत्य भीता हृदि जातवेपथुश्चिन्तां दुरन्तां रुदती जगाम ह
पदा सुजातेन नखारुणश्रिया भुवं लिखन्त्यश्रुभिरञ्जनासितैः। आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक्
तस्याः सुदुःखभयशोकविनष्टबुद्धेर्। हस्ताच्छ्लथद्वलयतो व्यजनं पपात। देहश्च विक्लवधियः सहसैव मुह्यन्। रम्भेव वायुविहतो प्रविकीर्य केशान्
तद्दृष्ट्वा भगवान्कृष्णः प्रियायाः प्रेमबन्धनम्। हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत
पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः। केशान्समुह्य तद्वक्त्रं प्रामृजत्पद्मपाणिना
प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा। आश्लिष्य बाहुना राजननन्यविषयां सतीम्
सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः। हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः
श्रीभगवानुवाच। मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम्। त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने
मुखं च प्रेमसंरम्भ स्फुरिताधरमीक्षितुम्। कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम्
अयं हि परमो लाभो गृहेषु गृहमेधिनाम्। यन्नर्मैरीयते यामः प्रियया भीरु भामिनि
श्रीशुक उवाच। सैवं भगवता राजन्वैदर्भी परिसान्त्विता। ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ
बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम्। सव्रीडहासरुचिर स्निग्धापाङ्गेन भारत
श्रीरुक्मिण्युवाच। नन्वेवमेतदरविन्दविलोचनाह यद्वै भवान्भगवतोऽसदृशी विभूम्नः। क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरज्ञगृहीतपादा
सत्यं भयादिव गुणेभ्य उरुक्रमान्तः। शेते समुद्र उपलम्भनमात्र आत्मा। नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं। त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम्
त्वत्पादपद्ममकरन्दजुषां मुनीनां। वर्त्मास्फुटं नृपशुभिर्ननु दुर्विभाव्यम्। यस्मादलौकिकमिवेहितमीश्वरस्य। भूमंस्तवेहितमथो अनु ये भवन्तम्
निष्किञ्चनो ननु भवान्न यतोऽस्ति किञ्चिद्। यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः। न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः। प्रेष्ठो भवान्बलिभुजामपि तेऽपि तुभ्यम्
त्वं वै समस्तपुरुषार्थमयः फलात्मा। यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम्। तेषां विभो समुचितो भवतः समाजः। पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न
त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव। आत्मात्मदश्च जगतामिति मे वृतोऽसि। हित्वा भवद्भ्रुव उदीरितकालवेग। ध्वस्ताशिषोऽब्जभवनाकपतीन्कुतोऽन्ये
जाड्यं वचस्तव गदाग्रज यस्तु भूपान्। विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम्। सिंहो यथा स्वबलिमीश पशून्स्वभागं। तेभ्यो भयाद्यदुदधिं शरणं प्रपन्नः
यद्वाञ्छया नृपशिखामणयोऽङ्गवैन्य। जायन्तनाहुषगयादय ऐक्यपत्यम्। राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष। सीदन्ति तेऽनुपदवीं त इहास्थिताः किम्
कान्यं श्रयेत तव पादसरोजगन्धम्। आघ्राय सन्मुखरितं जनतापवर्गम्। लक्ष्म्यालयं त्वविगणय्य गुणालयस्य। मर्त्या सदोरुभयमर्थविवीतदृष्टिः
तं त्वानुरूपमभजं जगतामधीशम्। आत्मानमत्र च परत्र च कामपूरम्। स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या। यो वै भजन्तमुपयात्यनृतापवर्गः
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः। स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः। यत्कर्णमूलमरिकर्षण नोपयायाद्। युष्मत्कथा मृडविरिञ्चसभासु गीता
त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर्। मांसास्थिरक्तकृमिविट्कफपित्तवातम्। जीवच्छवं भजति कान्तमतिर्विमूढा। या ते पदाब्जमकरन्दमजिघ्रती स्त्री