( अनुष्टुप् ) अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । यथोपयेमे भगवान् तावद् रूपधरोऽव्ययः
( वंशस्था ) गृहेषु तासामनपाय्यतर्ककृत् निरस्तसाम्यातिशयेष्ववस्थितः । रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन्
( वसंततिलका ) इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् । भेजुर्मुदाविरतमेधितयानुराग हासावलोकनवसङ्गमजल्पलज्जाः
प्रत्युद्गमासनवरार्हणपदशौच ताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर्विदधुः स्म दास्यम्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः
अथ षष्टितमोऽध्यायः 10.60 श्रीबादरायणिरुवाच। कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम्। पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः
यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः। स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः
तस्मिनन्तर्गृहे भ्राजन् मुक्तादामविलम्बिना। विराजिते वितानेन दीपैर्मणिमयैरपि
मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादिते। जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः
पारिजातवनामोद वायुनोद्यानशालिना। धूपैरगुरुजै राजन्जालरन्ध्रविनिर्गतैः
पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे। उपतस्थे सुखासीनं जगतामीश्वरं पतिम्
वालव्यजनमादाय रत्नदण्डं सखीकरात्। तेन वीजयती देवी उपासांचक्र ईश्वरम्
सोपाच्युतं क्वणयती मणिनूपुराभ्यां। रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता। वस्त्रान्तगूढकुचकुङ्कुमशोणहार। भासा नितम्बधृतया च परार्ध्यकाञ्च्या
तां रूपिणीं श्रीयमनन्यगतिं निरीक्ष्य। या लीलया धृततनोरनुरूपरूपा। प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ। वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे
श्रीभगवानुवाच। राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः। महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः
तान्प्राप्तानर्थिनो हित्वा चैद्यादीन्स्मरदुर्मदान्। दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान्
राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान्। बलवद्भिः कृतद्वेषान्प्रायस्त्यक्तनृपासनान्
अस्पष्टवर्त्मनाम्पुंसामलोकपथमीयुषाम्। आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः
निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः। तस्मात्प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे
ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः। तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित्
वैदर्भ्येतदविज्ञाय त्वया दीर्घसमीक्षया। वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा
अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम्। येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे
चैद्यशाल्वजरासन्ध दन्तवक्त्रादयो नृपाः। मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः
तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये। आनितासि मया भद्रे तेजोपहरता सताम्
उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः। आत्मलब्ध्यास्महे पूर्णा गेहयोर्ज्योतिरक्रियाः
श्रीशुक उवाच। एतावदुक्त्वा भगवानात्मानं वल्लभामिव। मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत्
इति त्रिलोकेशपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम्। आश्रुत्य भीता हृदि जातवेपथुश्चिन्तां दुरन्तां रुदती जगाम ह
पदा सुजातेन नखारुणश्रिया भुवं लिखन्त्यश्रुभिरञ्जनासितैः। आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक्
तस्याः सुदुःखभयशोकविनष्टबुद्धेर्। हस्ताच्छ्लथद्वलयतो व्यजनं पपात। देहश्च विक्लवधियः सहसैव मुह्यन्। रम्भेव वायुविहतो प्रविकीर्य केशान्
तद्दृष्ट्वा भगवान्कृष्णः प्रियायाः प्रेमबन्धनम्। हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत