( मिश्र ) सकुण्डलं चारुकिरीटभूषणं बभौ पृथिव्यां पतितं समुज्ज्वलम् । हा हेति साध्वित्यृषयः सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ईडिरे
ततश्च भूः कृष्णमुपेत्य कुण्डले । प्रतप्तजाम्बूनदरत्नभास्वरे । सवैजयन्त्या वनमालयार्पयत् प्राचेतसं छत्रमथो महामणिम्
( अनुष्टुप् ) अस्तौषीदथ विश्वेशं देवी देववरार्चितम् । प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया
भूमिरुवाच नमस्ते देवदेवेश शङ्खचक्रगदाधर । भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते
नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये
नमो भगवते तुभ्यं वासुदेवाय विष्णवे । पुरुषायादिबीजाय पूर्णबोधाय ते नमः
अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये । परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते
( मिश्र ) त्वं वै सिसृक्षुरज उत्कटं प्रभो तमो निरोधाय बिभर्ष्यसंवृतः । स्थानाय सत्त्वं जगतो जगत्पते कालः प्रधानं पुरुषो भवान् परः
अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रियाणि । कर्ता महानित्यखिलं चराचरं त्वय्यद्वितीये भगवन्नयं भ्रमः
तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः । तत् पालयैनं कुरु हस्तपङ्कजं शिरस्यमुष्याखिलकल्मषापहम्
श्रीशुक उवाच - ( अनुष्टुप् ) इति भूम्यर्थितो वाग्भिः भगवान् भक्तिनम्रया । दत्त्वाभयं भौमगृहं प्राविशत् सकलर्द्धिमत्
तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् । भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः
तं प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः । मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम्
भूयात् पतिरयं मह्यं धाता तदनुमोदताम् । इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः
ताः प्राहिणोद् द्वारवतीं सुमृष्टविरजोऽम्बराः । नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत्
ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः । पाण्डुरांश्च चतुःषष्टिं प्रेरयामास केशवः
गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले । पूजितस्त्रिदशेन्द्रेण सहेन्द्र्याण्या च सप्रियः
चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति । आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम्
स्थापितः सत्यभामाया गृहोद्यानोपशोभनः । अन्वगुर्भ्रमराः स्वर्गात् तद् गन्धासवलम्पटाः
( मिश्र ) ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन् अच्युतमर्थसाधनम् । सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिगाढ्यताम्
( अनुष्टुप् ) अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । यथोपयेमे भगवान् तावद् रूपधरोऽव्ययः
( वंशस्था ) गृहेषु तासामनपाय्यतर्ककृत् निरस्तसाम्यातिशयेष्ववस्थितः । रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन्
( वसंततिलका ) इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् । भेजुर्मुदाविरतमेधितयानुराग हासावलोकनवसङ्गमजल्पलज्जाः
प्रत्युद्गमासनवरार्हणपदशौच ताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर्विदधुः स्म दास्यम्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः
अथ षष्टितमोऽध्यायः 10.60 श्रीबादरायणिरुवाच। कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम्। पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः
यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः। स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः
तस्मिनन्तर्गृहे भ्राजन् मुक्तादामविलम्बिना। विराजिते वितानेन दीपैर्मणिमयैरपि
मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादिते। जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः
पारिजातवनामोद वायुनोद्यानशालिना। धूपैरगुरुजै राजन्जालरन्ध्रविनिर्गतैः