दशधेनुसहस्राणि पारिबर्हमदाद्विभुः। युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससम्
नवनागसहस्राणि नागाच्छतगुणान्रथान्। रथाच्छतगुणानश्वानश्वाच्छतगुणान्नरान्
दम्पती रथमारोप्य महत्या सेनया वृतौ। स्नेहप्रक्लिन्नहृदयो यापयामास कोशलः
श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम्। भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा
तानस्यतः शरव्रातान्बन्धुप्रियकृदर्जुनः। गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव
पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया। रेमे यदूनामृषभो भगवान्देवकीसुतः
श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृष्वसुः। कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः
सुतां च मद्राधिपतेर्लक्ष्मणां लक्षणैर्युताम्। स्वयंवरे जहारैकः स सुपर्णः सुधामिव
अन्याश्चैवंविधा भार्याः कृष्णस्यासन्सहस्रशः। भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः
मुरवधः भौमासुरवधः, भूमिकृता भगवत्स्तुतिः भौमाहृतषोडशसहस्रराजकन्यानां परिणयनं, पारिजातहरणं च श्रीराजोवाच - ( अनुष्टुप् ) यथा हतो भगवता भौमो येने च ताः स्त्रियः । निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः
श्रीशुक उवाच - इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना । हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् । सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ
गिरिदुर्गैः शस्त्रदुर्गैः जलाग्न्यनिलदुर्गमम् । मुरपाशायुतैर्घोरैः दृढैः सर्वत आवृतम्
गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः । चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना
शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् । प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः
पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात्
( मिश्र ) त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः । ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैः अभ्यद्रवत्तार्क्ष्यसुतं यथोरगः
आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः । स रोदसी सर्वदिशोऽन्तरं महान् आपूरयन् अण्डकटाहमावृणोत्
तदापतद् वै त्रिशिखं गरुत्मते हरिः शराभ्यां अभिनत्त्रिधौजसा । मुखेषु तं चापि शरैरताडयत् तस्मै गदां सोऽपि रुषा व्यमुञ्चत
तामापतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा । उद्यम्य बाहूनभिधावतोऽजितः शिरांसि चक्रेण जहार लीलया
व्यसुः पपाताम्भसि कृत्तशीर्षो निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा । तस्यात्मजाः सप्त पितुर्वधातुराः प्रतिक्रियामर्षजुषः समुद्यताः
ताम्रोऽन्तरिक्षः श्रवणो विभावसुः वसुर्नभस्वानरुणश्च सप्तमः । पीठं पुरस्कृत्य चमूपतिं मृधे भौमप्रयुक्ता निरग धृतायुधाः
प्रायुञ्जतासाद्य शरानसीन् गदाः शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः । तच्छस्त्रकूटं भगवान् स्वमार्गणैः अमोघवीर्यस्तिलशश्चकर्त ह
तान्पीठमुख्याननयद् यमक्षयं निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः । स्वानीकपानच्युतचक्रसायकैः तथा निरस्तान् नरको धरासुतः
( वंशस्था ) निरीक्ष्य दुर्मर्षण आस्रवन्मदैः गजैः पयोधिप्रभवैर्निराक्रमात् । दृष्ट्वा सभार्यं गरुडोपरि स्थितं सूर्योपरिष्टात् सतडिद्घनं यथा । कृष्णं स तस्मै व्यसृजच्छतघ्नीं योधाश्च सर्वे युगपत् च विव्यधुः
तद्भौमसैन्यं भगवान् गदाग्रजो विचित्रवाजैर्निशितैः शिलीमुखैः । निकृत्तबाहूरुशिरोध्रविग्रहं चकार तर्ह्येव हताश्वकुञ्जरम्
( अनुष्टुप् ) यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस्तान्यच्छिनत् तीक्ष्णैः शरैरेकैक शस्त्रीभिः
उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् । गुरुत्मता हन्यमानाः तुण्डपक्षनखैर्गजाः
पुरमेवाविशन्नार्ता नरको युध्ययुध्यत । दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं
तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः । नाकम्पत तया विद्धो मालाहत इव द्विपः
शूलं भौमोऽच्युतं हन्तुं आददे वितथोद्यमः । तद्विसर्गात् पूर्वमेव नरकस्य शिरो हरिः । अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना