यत्पादपङ्कजरजः शिरसा बिभर्ति। श्रीरब्जजः सगिरिशः सह लोकपालैः । लीलातनुः स्वकृतसेतुपरीप्सया यः। कालेऽदधत्स भगवान्मम केन तुष्येत्
अर्चितं पुनरित्याह नारायण जगत्पते। आत्मानन्देन पूर्णस्य करवाणि किमल्पकः
श्रीशुक उवाच। तमाह भगवान्हृष्टः कृतासनपरिग्रहः। मेघगम्भीरया वाचा सस्मितं कुरुनन्दन
श्रीभगवानुवाच। नरेन्द्र याच्ञा कविभिर्विगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः। तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्कदा वयम्
श्रीराजोवाच। कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः। गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी
किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ। पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया
सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः। एतैर्भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः
यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन। वरो भवानभिमतो दुहितुर्मे श्रियःपते
एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः। आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान्
बद्ध्वा तान्दामभिः शौरिर्भग्नदर्पान्हतौजसः। व्यकर्षल्लीलया बद्धान्बालो दारुमयान्यथा
ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः। तां प्रत्यगृह्णाद्भगवान्विधिवत्सदृशीं प्रभुः
राजपत्न्यश्च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्। लेभिरे परमानन्दं जातश्च परमोत्सवः
शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः। नरा नार्यः प्रमुदिताः सुवासःस्रगलङ्कृताः
दशधेनुसहस्राणि पारिबर्हमदाद्विभुः। युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससम्
नवनागसहस्राणि नागाच्छतगुणान्रथान्। रथाच्छतगुणानश्वानश्वाच्छतगुणान्नरान्
दम्पती रथमारोप्य महत्या सेनया वृतौ। स्नेहप्रक्लिन्नहृदयो यापयामास कोशलः
श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम्। भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा
तानस्यतः शरव्रातान्बन्धुप्रियकृदर्जुनः। गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव
पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया। रेमे यदूनामृषभो भगवान्देवकीसुतः
श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृष्वसुः। कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः
सुतां च मद्राधिपतेर्लक्ष्मणां लक्षणैर्युताम्। स्वयंवरे जहारैकः स सुपर्णः सुधामिव
अन्याश्चैवंविधा भार्याः कृष्णस्यासन्सहस्रशः। भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः
मुरवधः भौमासुरवधः, भूमिकृता भगवत्स्तुतिः भौमाहृतषोडशसहस्रराजकन्यानां परिणयनं, पारिजातहरणं च श्रीराजोवाच - ( अनुष्टुप् ) यथा हतो भगवता भौमो येने च ताः स्त्रियः । निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः
श्रीशुक उवाच - इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना । हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् । सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ
गिरिदुर्गैः शस्त्रदुर्गैः जलाग्न्यनिलदुर्गमम् । मुरपाशायुतैर्घोरैः दृढैः सर्वत आवृतम्
गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः । चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना
शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् । प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः
पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात्
( मिश्र ) त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः । ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैः अभ्यद्रवत्तार्क्ष्यसुतं यथोरगः
आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः । स रोदसी सर्वदिशोऽन्तरं महान् आपूरयन् अण्डकटाहमावृणोत्