मयश्च मोचितो वह्नेः सभां सख्य उपाहरत्। यस्मिन्दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः
स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः। आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः
अथोपयेमे कालिन्दीं सुपुण्यर्त्वृक्ष ऊर्जिते। वितन्वन्परमानन्दं स्वानां परममङ्गलः
विन्द्यानुविन्द्यावावन्त्यौ दुर्योधनवशानुगौ। स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम्
राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसुः। प्रसह्य हृतवान्कृष्णो राजन्राज्ञां प्रपश्यताम्
नग्नजिन्नाम कौशल्य आसीद्राजातिधार्मिकः। तस्य सत्याभवत्कन्या देवी नाग्नजिती नृप
न तां शेकुर्नृपा वोढुमजित्वा सप्तगोवृषान्। तीक्ष्णशृङ्गान्सुदुर्धर्षान्वीर्यगन्धासहान्खलान्
तां श्रुत्वा वृषजिल्लभ्यां भगवान्सात्वतां पतिः। जगाम कौशल्यपुरं सैन्येन महता वृतः
स कोशलपतिः प्रीतः प्रत्युत्थानासनादिभिः। अर्हणेनापि गुरुणा पूजयन्प्रतिनन्दितः
वरं विलोक्याभिमतं समागतं नरेन्द्र कन्या चकमे रमापतिम्। भूयादयं मे पतिराशिषोऽनलः करोतु सत्या यदि मे धृतो व्रतः
यत्पादपङ्कजरजः शिरसा बिभर्ति। श्रीरब्जजः सगिरिशः सह लोकपालैः । लीलातनुः स्वकृतसेतुपरीप्सया यः। कालेऽदधत्स भगवान्मम केन तुष्येत्
अर्चितं पुनरित्याह नारायण जगत्पते। आत्मानन्देन पूर्णस्य करवाणि किमल्पकः
श्रीशुक उवाच। तमाह भगवान्हृष्टः कृतासनपरिग्रहः। मेघगम्भीरया वाचा सस्मितं कुरुनन्दन
श्रीभगवानुवाच। नरेन्द्र याच्ञा कविभिर्विगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः। तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्कदा वयम्
श्रीराजोवाच। कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः। गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी
किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ। पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया
सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः। एतैर्भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः
यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन। वरो भवानभिमतो दुहितुर्मे श्रियःपते
एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः। आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान्
बद्ध्वा तान्दामभिः शौरिर्भग्नदर्पान्हतौजसः। व्यकर्षल्लीलया बद्धान्बालो दारुमयान्यथा
ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः। तां प्रत्यगृह्णाद्भगवान्विधिवत्सदृशीं प्रभुः
राजपत्न्यश्च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्। लेभिरे परमानन्दं जातश्च परमोत्सवः
शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः। नरा नार्यः प्रमुदिताः सुवासःस्रगलङ्कृताः
दशधेनुसहस्राणि पारिबर्हमदाद्विभुः। युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससम्
नवनागसहस्राणि नागाच्छतगुणान्रथान्। रथाच्छतगुणानश्वानश्वाच्छतगुणान्नरान्
दम्पती रथमारोप्य महत्या सेनया वृतौ। स्नेहप्रक्लिन्नहृदयो यापयामास कोशलः
श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम्। भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा
तानस्यतः शरव्रातान्बन्धुप्रियकृदर्जुनः। गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव
पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया। रेमे यदूनामृषभो भगवान्देवकीसुतः
श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृष्वसुः। कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः