दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च। उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा
एवं व्यवसितो बुद्ध्या सत्राजित्स्वसुतां शुभाम्। मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह
तां सत्यभामां भगवानुपयेमे यथाविधि। बहुभिर्याचितां शील रूपौदार्यगुणान्विताम्
भगवानाह न मणिं प्रतीच्छामो वयं नृप। तवास्तां देवभक्तस्य वयं च फलभागिनः
कालिन्दीमित्रविन्दासत्याभद्रालक्ष्मणादीनां पाणिग्रहणम्। अथाष्टपञ्चाशत्तमोऽध्यायः 10.58 श्रीशुक उवाच। एकदा पाण्डवान्द्रष्टुं प्रतीतान्पुरुषोत्तमः। इन्द्रप्रस्थं गतः श्रीमान्युयुधानादिभिर्वृतः
दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम्। उत्तस्थुर्युगपद्वीराः प्राणा मुख्यमिवागतम्
परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः। सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः
युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम्। फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः
परमासन आसीनं कृष्णा कृष्णमनिन्दिता। नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत
तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः। निषसादासनेऽन्ये च पूजिताः पर्युपासत
पृथाम्समागत्य कृताभिवादनस्तयातिहार्दार्द्र दृशाभिरम्भितः। आपृष्टवांस्तां कुशलं सहस्नुषां पितृष्वसारम्परिपृष्टबान्धवः
तमाह प्रेमवैक्लव्य रुद्धकण्ठाश्रुलोचना। स्मरन्ती तान्बहून्क्लेशान्क्लेशापायात्मदर्शनम्
तदैव कुशलं नोऽभूत्सनाथास्ते कृता वयम्। ज्ञातीन्नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया
न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः। तथापि स्मरतां शश्वत्क्लेशान्हंसि हृदि स्थितः
युधिष्ठिर उवाच। किं न आचरितं श्रेयो न वेदाहमधीश्वर। योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम्
इति वै वार्षिकान्मासान्राज्ञा सोऽभ्यर्थितः सुखम्। जनयन्नयनानन्दमिन्द्रप्रस्थौकसां विभुः
एकदा रथमारुह्य विजयो वानरध्वजम्। गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत्। बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा
तत्राविध्यच्छरैर्व्याघ्रान्शूकरान्महिषान्रुरून्। शरभान्गवयान्खड्गान्हरिणान्शशशल्लकान्
तान्निन्युः किङ्करा राज्ञे मेध्यान्पर्वण्युपागते। तृट्परीतः परिश्रान्तो बिभत्सुर्यमुनामगात्
तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ। कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम्
तामासाद्य वरारोहां सुद्विजां रुचिराननाम्। पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम्
का त्वं कस्यासि सुश्रोणि कुतो वा किं चिकीर्षसि। मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने
श्रीकालिन्द्युवाच। अहं देवस्य सवितुर्दुहिता पतिमिच्छती। विष्णुं वरेण्यं वरदं तपः परममास्थितः
नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम्। तुष्यतां मे स भगवान्मुकुन्दोऽनाथसंश्रयः
कालिन्दीति समाख्याता वसामि यमुनाजले। निर्मिते भवने पित्रा यावदच्युतदर्शनम्
तथावदद्गुडाकेशो वासुदेवाय सोऽपि ताम्। रथमारोप्य तद्विद्वान्धर्मराजमुपागमत्
यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्भुतम्। कारयामास नगरं विचित्रं विश्वकर्मणा
भगवांस्तत्र निवसन्स्वानां प्रियचिकीर्षया। अग्नये खाण्डवं दातुमर्जुनस्याथ सारथिः
सोऽग्निस्तुष्टो धनुरदाद्ध्यान्श्वेतान्रथं नृप। अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः