इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा। अर्हणार्थं स मणिना कृष्णायोपजहार ह
अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः। प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः
निशम्य देवकी देवी रुक्मिण्यानकदुन्दुभिः। सुहृदो ज्ञातयोऽशोचन्बिलात्कृष्णमनिर्गतम्
सत्राजितं शपन्तस्ते दुःखिता द्वारकौकसः। उपतस्थुश्चन्द्र भागां दुर्गां कृष्णोपलब्धये
तेषां तु देव्युपस्थानात्प्रत्यादिष्टाशिषा स च। प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन्हरिः
उपलभ्य हृषीकेशं मृतं पुनरिवागतम्। सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः
सत्राजितं समाहूय सभायां राजसन्निधौ। प्राप्तिं चाख्याय भगवान्मणिं तस्मै न्यवेदयत्
स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्ततः। अनुतप्यमानो भवनमगमत्स्वेन पाप्मना
सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः। कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम्
किं कृत्वा साधु मह्यं स्यान्न शपेद्वा जनो यथा। अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम्
दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च। उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा
एवं व्यवसितो बुद्ध्या सत्राजित्स्वसुतां शुभाम्। मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह
तां सत्यभामां भगवानुपयेमे यथाविधि। बहुभिर्याचितां शील रूपौदार्यगुणान्विताम्
भगवानाह न मणिं प्रतीच्छामो वयं नृप। तवास्तां देवभक्तस्य वयं च फलभागिनः
कालिन्दीमित्रविन्दासत्याभद्रालक्ष्मणादीनां पाणिग्रहणम्। अथाष्टपञ्चाशत्तमोऽध्यायः 10.58 श्रीशुक उवाच। एकदा पाण्डवान्द्रष्टुं प्रतीतान्पुरुषोत्तमः। इन्द्रप्रस्थं गतः श्रीमान्युयुधानादिभिर्वृतः
दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम्। उत्तस्थुर्युगपद्वीराः प्राणा मुख्यमिवागतम्
परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः। सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः
युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम्। फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः
परमासन आसीनं कृष्णा कृष्णमनिन्दिता। नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत
तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः। निषसादासनेऽन्ये च पूजिताः पर्युपासत
पृथाम्समागत्य कृताभिवादनस्तयातिहार्दार्द्र दृशाभिरम्भितः। आपृष्टवांस्तां कुशलं सहस्नुषां पितृष्वसारम्परिपृष्टबान्धवः
तमाह प्रेमवैक्लव्य रुद्धकण्ठाश्रुलोचना। स्मरन्ती तान्बहून्क्लेशान्क्लेशापायात्मदर्शनम्
तदैव कुशलं नोऽभूत्सनाथास्ते कृता वयम्। ज्ञातीन्नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया
न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः। तथापि स्मरतां शश्वत्क्लेशान्हंसि हृदि स्थितः
युधिष्ठिर उवाच। किं न आचरितं श्रेयो न वेदाहमधीश्वर। योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम्
इति वै वार्षिकान्मासान्राज्ञा सोऽभ्यर्थितः सुखम्। जनयन्नयनानन्दमिन्द्रप्रस्थौकसां विभुः
एकदा रथमारुह्य विजयो वानरध्वजम्। गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत्। बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा
तत्राविध्यच्छरैर्व्याघ्रान्शूकरान्महिषान्रुरून्। शरभान्गवयान्खड्गान्हरिणान्शशशल्लकान्
तान्निन्युः किङ्करा राज्ञे मेध्यान्पर्वण्युपागते। तृट्परीतः परिश्रान्तो बिभत्सुर्यमुनामगात्