तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः। दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः
नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर। दामोदरारविन्दाक्ष गोविन्द यदुनन्दन
एष आयाति सविता त्वां दिदृक्षुर्जगत्पते। मुष्णन्गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः
नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः। ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो
श्रीशुक उवाच। निशम्य बालवचनं प्रहस्याम्बुजलोचनः। प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन्
सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम्। प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत्
दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो। दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः। न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः
स याचितो मणिं क्वापि यदुराजाय शौरिणा। नैवार्थकामुकः प्रादाद्याच्ञाभङ्गमतर्कयन्
तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम्। प्रसेनो हयमारुह्य मृगायां व्यचरद्वने
प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी। गिरिं विशन्जाम्बवता निहतो मणिमिच्छता
सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले। अपश्यन्भ्रातरं भ्राता सत्राजित्पर्यतप्यत
प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः। भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन्जनाः
भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि। मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः
हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने। तं चाद्रि पृष्ठे निहतमृक्षेण ददृशुर्जनाः
ऋक्षराजबिलं भीममन्धेन तमसावृतम्। एको विवेश भगवानवस्थाप्य बहिः प्रजाः
तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम्। हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके
तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत्। तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो जाम्बवान्बलिनां वरः
स वै भगवता तेन युयुधे स्वामिनाऽऽत्मनः। पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित्
द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः। आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव
आसीत्तदष्टाविंशाहमितरेतरमुष्टिभिः। वज्रनिष्पेषपरुषैरविश्रममहर्निशम्
कृष्णमुष्टिविनिष्पात निष्पिष्टाङ्गोरु बन्धनः। क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः
जाने त्वां सर्वभूतानां प्राण ओजः सहो बलम्। विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम्
त्वं हि विश्वसृजां स्रष्टा सृष्टानामपि यच्च सत्। कालः कलयतामीशः पर आत्मा तथात्मनाम्
यस्येषदुत्कलितरोषकटाक्षमोक्षैर्। वर्त्मादिशत्क्षुभितनक्रतिमिङ्गलोऽब्धिः । सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का। रक्षःशिरांसि भुवि पेतुरिषुक्षतानि
इति विज्ञातविज्ञानमृक्षराजानमच्युतः। व्याजहार महाराज भगवान्देवकीसुतः
अभिमृश्यारविन्दाक्षः पाणिना शंकरेण तम्। कृपया परया भक्तं मेघगम्भीरया गिरा
मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम्। मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना
इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा। अर्हणार्थं स मणिना कृष्णायोपजहार ह
अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः। प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः
निशम्य देवकी देवी रुक्मिण्यानकदुन्दुभिः। सुहृदो ज्ञातयोऽशोचन्बिलात्कृष्णमनिर्गतम्