ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः । प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः
निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् । शम्बरस्य शिरः कायात् ताम्रश्मश्र्वोजसाहरत्
आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः । भार्ययाम्बरचारिण्या पुरं नीतो विहायसा
अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् । विवेश पत्न्या गगनाद् विद्युतेव बलाहकः
तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् । प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम्
स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह
अवधार्य शनैरीषद् वैलक्षण्येन योषितः । उपजग्मुः प्रमुदिताः सस्त्री रत्नं सुविस्मिताः
अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी । अस्मरत् स्वसुतं नष्टं स्नेहस्नुतपयोधरा
को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः । धृतः कया वा जठरे केयं लब्धा त्वनेन वा
मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् । एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित्
कथं त्वनेन संप्राप्तं सारूप्यं शार्ङ्गधन्वनः । आकृत्यावयवैर्गत्या स्वरहासावलोकनैः
स एव वा भवेत् नूनं यो मे गर्भे धृतोऽर्भकः । अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः
एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः । देवक्यानकदुन्दुभ्यां उत्तमःश्लोक आगमत्
विज्ञातार्थोऽपि भगवान् तूष्णीमास जनार्दनः । नारदोऽकथयत् सर्वं शम्बराहरणादिकम्
तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः । अभ्यनन्दन् ब्बहूनब्दान् नष्टं मृतमिवागतम्
देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः । दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम्
नष्टं प्रद्युम्नमायातं आकर्ण्य द्वारकौकसः । अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन्
( वसंततिलका ) यं वै मुहुः पितृसरूपनिजेशभावाः तन्मातरो यदभजन् रहरूढभावाः । चित्रं न तत्खलु रमास्पदबिम्बबिम्बे कामे स्मरेऽक्षविषये किमुतान्यनार्यः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः
अथ षट्पञ्चाशत्तमोऽध्यायः । श्रीशुक उवाच। सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः। स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान्
श्रीराजोवाच। सत्राजितः किमकरोद्ब्रह्मन्कृष्णस्य किल्बिषः। स्यमन्तकः कुतस्तस्य कस्माद्दत्ता सुता हरेः
श्रीशुक उवाच। आसीत्सत्राजितः सूर्यो भक्तस्य परमः सखा। प्रीतस्तस्मै मणिं प्रादात्स च तुष्टः स्यमन्तकम्
स तं बिभ्रन्मणिं कण्ठे भ्राजमानो यथा रविः। प्रविष्टो द्वारकां राजन्तेजसा नोपलक्षितः
तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः। दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः
नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर। दामोदरारविन्दाक्ष गोविन्द यदुनन्दन
एष आयाति सविता त्वां दिदृक्षुर्जगत्पते। मुष्णन्गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः
नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः। ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो
श्रीशुक उवाच। निशम्य बालवचनं प्रहस्याम्बुजलोचनः। प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन्
सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम्। प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत्
दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो। दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः। न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः