एष त्वानिर्दशं सिन्धौ अक्षिपत् शंबरोऽसुरः । मत्स्योऽग्रसीत् तत् उदराद् इतः प्राप्तो भवान् प्रभो
तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः । मायाशतविदं तं च मायाभिर्मोहनादिभिः
परीशोचति ते माता कुररीव गतप्रजा । पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा
प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने । मायावती महामायां सर्वमायाविनाशिनीम्
स च शम्बरमभ्येत्य संयुगाय समाह्वयत् । अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम्
सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः । निश्चक्राम गदापाणिः अमर्षात् ताम्रलोचनः
गदामाविध्य तरसा प्रद्युम्नाय महात्मने । प्रक्षिप्य व्यनदद् नादं वज्रनिष्पेषनिष्ठुरम्
तामापतन्तीं भगवानन् प्रद्युम्नो गदया गदाम् । अपास्य शत्रवे क्रुद्धः प्राहिणोर् स्वगदां नृप
स च मायां समाश्रित्य दैतेयीं मयदर्शितम् । मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः
बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः । सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम्
ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः । प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः
निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् । शम्बरस्य शिरः कायात् ताम्रश्मश्र्वोजसाहरत्
आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः । भार्ययाम्बरचारिण्या पुरं नीतो विहायसा
अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् । विवेश पत्न्या गगनाद् विद्युतेव बलाहकः
तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् । प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम्
स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह
अवधार्य शनैरीषद् वैलक्षण्येन योषितः । उपजग्मुः प्रमुदिताः सस्त्री रत्नं सुविस्मिताः
अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी । अस्मरत् स्वसुतं नष्टं स्नेहस्नुतपयोधरा
को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः । धृतः कया वा जठरे केयं लब्धा त्वनेन वा
मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् । एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित्
कथं त्वनेन संप्राप्तं सारूप्यं शार्ङ्गधन्वनः । आकृत्यावयवैर्गत्या स्वरहासावलोकनैः
स एव वा भवेत् नूनं यो मे गर्भे धृतोऽर्भकः । अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः
एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः । देवक्यानकदुन्दुभ्यां उत्तमःश्लोक आगमत्
विज्ञातार्थोऽपि भगवान् तूष्णीमास जनार्दनः । नारदोऽकथयत् सर्वं शम्बराहरणादिकम्
तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः । अभ्यनन्दन् ब्बहूनब्दान् नष्टं मृतमिवागतम्
देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः । दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम्
नष्टं प्रद्युम्नमायातं आकर्ण्य द्वारकौकसः । अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन्
( वसंततिलका ) यं वै मुहुः पितृसरूपनिजेशभावाः तन्मातरो यदभजन् रहरूढभावाः । चित्रं न तत्खलु रमास्पदबिम्बबिम्बे कामे स्मरेऽक्षविषये किमुतान्यनार्यः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः
अथ षट्पञ्चाशत्तमोऽध्यायः । श्रीशुक उवाच। सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः। स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान्