गोकर्णः तीर्थयात्रार्थं निर्गतो योगसंस्थितः । न दुःखं न सुखं तस्य न वैरी नापि बान्धवः
धुन्धुकारी गृहेऽतिष्ठत् पंचपण्यवधूवृतः । अत्युग्रकर्मकर्ता च तत् पोषणविमूढधीः
एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः । तदर्थं निर्गतो गेहात् कामान्धो मृत्युमस्मरन्
यतस्ततश्च संहृत्य वित्तं वेश्म पुनर्गतः । ताभ्योऽयच्छत् सुवस्त्राणि भूषणानि कियन्ति च
बहुवित्तचयं दृष्ट्वा रात्रौ नार्यो व्यचारयन् । चौर्यं करोत्यसौ नित्यं अतो राजा ग्रहीष्यति
वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम् । अतोऽर्थगुप्तये गूढं अस्माभिः किं न हन्यते
निहत्यैनं गृहीत्वार्थं यास्यामो यत्र कुत्रचित् । इति ता निश्चयं कृत्वा सुप्तं सम्बद्ध्य रश्मिभिः
पाशं कण्ठे निधायास्य तन्मृत्युं उपचक्रमुः । त्वरितं न ममारासौ चिन्तायुक्ताः तदाभवन्
तप्तांगारसमूहांश्च तन्मुखे हि विचिक्षिपुः । अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः
तं देहं मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः । न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च
लोकैः पृष्ट्वा वदन्ति स्म दूरं यातः प्रियो हि नः । आगमिष्यति वर्षेऽस्मिन् वित्तलोभविकर्षितः
स्त्रीणां नैव तु विश्वासं दुष्टानां कारयेत् बुधः । विश्वासे यः स्थितो मूढः स दुःखैः परिभूयते
सुधामयं वचो यासां कामिनां रसवर्धनम् । हृदयं क्षुरधाराभं प्रियः को नाम योषिताम्
संहृत्य वित्तं ता याताः कुलटा बहुभर्तृकाः । धुम्धुकारी बभूवाथ महान् प्रेतः कुकर्मतः
वात्यारूपधरो नित्यं धावन् दशदिशोन्तरम् । शीतातप परिक्लिष्टो निराहारः पिपासितः
न लेभे शरणं क्वापि हा दैवेति मुहुर्वदन् । कियत्कालेन गोकर्णो मृतं लोकादबुध्यत
अनाथं तं विदित्वैव गयाश्राद्धं अचीकरत् । यस्मिन् तीर्थे तु संयाति तत्र श्राद्धं अवर्तयत्
एवं भ्रमन् स गोकर्णः स्वपुरं समुपेयिवान् । रात्रौ गृहांगणे स्वप्तुं आगतोऽलक्षितः परैः
तत्र सुप्तं स विज्ञाय धुन्धुकारी स्वबान्धवम् । निशीथे दर्शयामास महारौद्रतरं वपुः
सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत् । सकृदिन्द्र सकृच्चाग्निः पुनश्च पुरुषोऽभवत्
वैपरीत्यं इदं दृष्ट्वा गोकर्णो धैर्यसंयुतः । अयं दुर्गतिकं कोऽपि निश्चित्याथ तमब्रवीत्
गोकर्ण उवाच - कस्त्वं उग्रतरो रात्रौ कुतो यातो दशां इमाम् । किंवा प्रेतः पिशाचो वा राक्षसोऽसीति शंस नः
सूत उवाच - एवं पृष्टस्तदा तेन रुरोदोच्चैः पुनः पुनः । अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह
ततोऽञ्जलौ जलं कृत्वा गोकर्णस्तमुदैरयत् । तत्सेकहतपापोऽसौ प्रवक्तुं उपचक्रमे
प्रेत उवाच - अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीरि नामतः । स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया
कर्मणो नास्ति संख्या मे महाज्ञाने विवर्तिनः । लोकानां हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः
अतः प्रेतत्वं आपन्नो दुर्दशां च वहाम्यहम् । वाताहारेण जीवामि दैवाधीनफलोदयात्
अहो बन्धो कृपासिन्धो भ्रातर्मामाशु मोचय । गोकर्णो वचनं श्रुत्वा तस्मै वाक्यं अथाब्रवीत्
गोकर्ण उवाच - त्वदर्थं तु गयापिण्डो मया दत्तो विधानतः । तत्कथं नैव मुक्तोऽसि ममाश्चर्यं इदं महत्
गयाश्राद्धान्न मुक्तिश्चेत् उपायो नापरस्त्विह । किं विधेयं मया प्रेत तत्त्वं वद सविस्तरम्