सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम्। गजैर्द्वाःसु परामृष्ट रम्भापूगोपशोभिता
कुरुसृञ्जयकैकेय विदर्भयदुकुन्तयः। मिथो मुमुदिरे तस्मिन्सम्भ्रमात्परिधावताम्
रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः। राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः
द्वारकायामभूद्राजन्महामोदः पुरौकसाम्। रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम्
प्रद्युम्नस्य जन्म, शम्बरासुरवधश्च श्रीशुक उवाच - ( अनुष्टुप् ) कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना । देहोपपत्तये भूयः तमेव प्रत्यपद्यत
स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः । प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः
तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् । स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद् गृहम्
तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह । वृतो जालेन महता गृहीतो मत्स्यजीविभिः
तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् । सूदा महानसं नीत्वा वद्यन् स्वधितिनाद्भुतम्
दृष्ट्वा तद् उदरे बालं मायावत्यै न्यवेदयन् । नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः । बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम्
सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी । पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती
निरूपिता शम्बरेण सा सूदौदनसाधने । कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके
नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः । जनयामास नारीणां वीक्षन्तीनां च विभ्रमम्
( इंद्रवंशा ) सा तं पतिं पद्मदलायतेक्षणं प्रलम्बबाहुं नरलोकसुन्दरम् । सव्रीडहासोत्तभितभ्रुवेक्षती प्रीत्योपतस्थे रतिरङ्ग सौरतैः
( अनुष्टुप् ) तामह भगवान् कार्ष्णिः मातस्ते मतिरन्यथा । मातृभावं अतिक्रम्य वर्तसे कामिनी यथा
रतिरुवाच - भवान् नारायणसुतः शम्बरेणाहृतो गृहात् । अहं तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो
एष त्वानिर्दशं सिन्धौ अक्षिपत् शंबरोऽसुरः । मत्स्योऽग्रसीत् तत् उदराद् इतः प्राप्तो भवान् प्रभो
तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः । मायाशतविदं तं च मायाभिर्मोहनादिभिः
परीशोचति ते माता कुररीव गतप्रजा । पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा
प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने । मायावती महामायां सर्वमायाविनाशिनीम्
स च शम्बरमभ्येत्य संयुगाय समाह्वयत् । अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम्
सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः । निश्चक्राम गदापाणिः अमर्षात् ताम्रलोचनः
गदामाविध्य तरसा प्रद्युम्नाय महात्मने । प्रक्षिप्य व्यनदद् नादं वज्रनिष्पेषनिष्ठुरम्
तामापतन्तीं भगवानन् प्रद्युम्नो गदया गदाम् । अपास्य शत्रवे क्रुद्धः प्राहिणोर् स्वगदां नृप
स च मायां समाश्रित्य दैतेयीं मयदर्शितम् । मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः
बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः । सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम्
ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः । प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः
निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् । शम्बरस्य शिरः कायात् ताम्रश्मश्र्वोजसाहरत्
आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः । भार्ययाम्बरचारिण्या पुरं नीतो विहायसा
अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् । विवेश पत्न्या गगनाद् विद्युतेव बलाहकः