श्रीरुक्मिण्युवाच। योगेश्वराप्रमेयात्मन्देवदेव जगत्पते। हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज
श्रीशुक उवाच। तया परित्रासविकम्पिताङ्गया शुचावशुष्यन्मुखरुद्धकण्ठया। कातर्यविस्रंसितहेममालया गृहीतपादः करुणो न्यवर्तत
चैलेन बद्ध्वा तमसाधुकारिणं सश्मश्रुकेशं प्रवपन्व्यरूपयत्। तावन्ममर्दुः परसैन्यमद्भुतं यदुप्रवीरा नलिनीं यथा गजाः
कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम्। तथाभूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः। विमुच्य बद्धं करुणो भगवान्कृष्णमब्रवीत्
असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम्। वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः
मैवास्मान्साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया। सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक्पुमान्
बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति। त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः
क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः। भ्रातापि भ्रातरं हन्याद्येन घोरतमस्ततः
राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः। मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि
तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम्। यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत्
आत्ममोहो नृणामेव कल्पते देवमायया। सुहृद्दुर्हृदुदासीन इति देहात्ममानिनाम्
एक एव परो ह्यात्मा सर्वेषामपि देहिनाम्। नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः
देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः। आत्मन्यविद्यया कॢप्तः संसारयति देहिनम्
नात्मनोऽन्येन संयोगो वियोगश्च सतः सति। तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्यां यथा रवेः
जन्मादयस्तु देहस्य विक्रिया नात्मनः क्वचित्। कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव
यथा शयान आत्मानं विषयान्फलमेव च। अनुभुङ्क्तेऽप्यसत्यर्थे तथाप्नोत्यबुधो भवम्
तस्मादज्ञानजं शोकमात्मशोषविमोहनम्। तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते
श्रीशुक उवाच। एवं भगवता तन्वी रामेण प्रतिबोधिता। वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे
प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः। स्मरन्विरूपकरणं वितथात्ममनोरथः
चक्रे भोजकटं नाम निवासाय महत्पुरम्। अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम्
कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद्रुषा। भगवान्भीष्मकसुतामेवं निर्जित्य भूमिपान्
पुरमानीय विधिवदुपयेमे कुरूद्वह। तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे। अभूदनन्यभावानां कृष्णे यदुपतौ नृप
नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः। पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः
सा वृष्णिपुर्युत्तम्भितेन्द्र केतुभिर्। विचित्रमाल्याम्बररत्नतोरणैः। बभौ प्रतिद्वार्युपकॢप्तमङ्गलैर्। आपूर्णकुम्भागुरुधूपदीपकैः
सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम्। गजैर्द्वाःसु परामृष्ट रम्भापूगोपशोभिता
कुरुसृञ्जयकैकेय विदर्भयदुकुन्तयः। मिथो मुमुदिरे तस्मिन्सम्भ्रमात्परिधावताम्
रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः। राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः
द्वारकायामभूद्राजन्महामोदः पुरौकसाम्। रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम्
प्रद्युम्नस्य जन्म, शम्बरासुरवधश्च श्रीशुक उवाच - ( अनुष्टुप् ) कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना । देहोपपत्तये भूयः तमेव प्रत्यपद्यत
स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः । प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः