तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः। अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान्रथान्
पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि। सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः
हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः। अश्वाश्वतरनागोष्ट्र खरमर्त्यशिरांसि च
हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः। राजानो विमुखा जग्मुर्जरासन्धपुरःसराः
शिशुपालं समभ्येत्य हृतदारमिवातुरम्। नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन्
भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज। न प्रियाप्रिययो राजन्निष्ठा देहिषु दृश्यते
यथा दारुमयी योषित्नृत्यते कुहकेच्छया। एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः
शौरेः सप्तदशाहं वै संयुगानि पराजितः। त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम्
तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित्। कालेन दैवयुक्तेन जानन्विद्रावितं जगत्
अधुनापि वयं सर्वे वीरयूथपयूथपाः। पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः
रिपवो जिग्युरधुना काल आत्मानुसारिणि। तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः
श्रीशुक उवाच। एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम्। हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः
रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन्स्वसुः। पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली
रुक्म्यमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम्। प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः
अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम्। कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः
इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः। चोदयाश्वान्यतः कृष्णः तस्य मे संयुगं भवेत्
अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः। नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता
विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित्। रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत्
धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः। आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन
यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः। हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः
यावन्न मे हतो बाणैः शयीथा मुञ्च दारिकाम्। स्मयन्कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम्
अष्टभिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं त्रिभिः। स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः
तैस्तादितः शरौघैस्तु चिच्छेद धनुरच्युतः। पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः
परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ। यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरिः
ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया। कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम्
तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः। छित्त्वासिमाददे तिग्मं रुक्मिणं हन्तुमुद्यतः
दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला। पतित्वा पादयोर्भर्तुरुवाच करुणं सती
श्रीरुक्मिण्युवाच। योगेश्वराप्रमेयात्मन्देवदेव जगत्पते। हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज
श्रीशुक उवाच। तया परित्रासविकम्पिताङ्गया शुचावशुष्यन्मुखरुद्धकण्ठया। कातर्यविस्रंसितहेममालया गृहीतपादः करुणो न्यवर्तत
चैलेन बद्ध्वा तमसाधुकारिणं सश्मश्रुकेशं प्रवपन्व्यरूपयत्। तावन्ममर्दुः परसैन्यमद्भुतं यदुप्रवीरा नलिनीं यथा गजाः