विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः। यां वीक्ष्य ते नृपतयस्तदुदारहास व्रीडावलोकहृतचेतस उज्झितास्त्राः
पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम्। सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा
उत्सार्य वामकरजैरलकानपङ्गैः प्राप्तान्ह्रियैक्षत नृपान्ददृशेऽच्युतं च। तां राजकन्यां रथमारुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम्
रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः। ततो ययौ रामपुरोगमः शनैः शृगालमध्यादिव भागहृद्धरिः
तं मानिनः स्वाभिभवं यशःक्षयं। परे जरासन्धमुखा न सेहिरे। अहो धिगस्मान्यश आत्तधन्वनां। गोपैर्हृतं केशरिणां मृगैरिव
अथ चतुःपञ्चाशत्तमोऽध्यायः 10.54 श्रीशुक उवाच। इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः। स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः
तानापतत आलोक्य यादवानीकयूथपाः। तस्थुस्तत्सम्मुखा राजन्विस्फूर्ज्य स्वधनूंषि ते
अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्त्र कोविदाः। मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा
पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा। सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना
प्रहस्य भगवानाह मा स्म भैर्वामलोचने। विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम्
तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः। अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान्रथान्
पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि। सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः
हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः। अश्वाश्वतरनागोष्ट्र खरमर्त्यशिरांसि च
हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः। राजानो विमुखा जग्मुर्जरासन्धपुरःसराः
शिशुपालं समभ्येत्य हृतदारमिवातुरम्। नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन्
भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज। न प्रियाप्रिययो राजन्निष्ठा देहिषु दृश्यते
यथा दारुमयी योषित्नृत्यते कुहकेच्छया। एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः
शौरेः सप्तदशाहं वै संयुगानि पराजितः। त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम्
तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित्। कालेन दैवयुक्तेन जानन्विद्रावितं जगत्
अधुनापि वयं सर्वे वीरयूथपयूथपाः। पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः
रिपवो जिग्युरधुना काल आत्मानुसारिणि। तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः
श्रीशुक उवाच। एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम्। हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः
रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन्स्वसुः। पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली
रुक्म्यमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम्। प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः
अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम्। कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः
इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः। चोदयाश्वान्यतः कृष्णः तस्य मे संयुगं भवेत्
अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः। नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता
विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित्। रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत्
धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः। आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन
यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः। हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः