मधुपर्कमुपानीय वासांसि विरजांसि सः। उपायनान्यभीष्टानि विधिवत्समपूजयत्
तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः। ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा
एवं राज्ञां समेतानां यथावीर्यं यथावयः। यथाबलं यथावित्तं सर्वैः कामैः समर्हयत्
कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः। आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम्
अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा। असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः
किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत्। अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः
एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः। कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम्
पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम्। सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम्
यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता। गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः। मृडङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे
नानोपहार बलिभिर्वारमुख्याः सहस्रशः। स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः
गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादकाः। परिवार्य वधूं जग्मुः सूतमागधवन्दिनः
आसाद्य देवीसदनं धौतपादकराम्बुजा। उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम्
तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः। भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम्
नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम्। भूयात्पतिर्मे भगवान्कृष्णस्तदनुमोदताम्
अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्य भूषणैः। नानोपहारबलिभिः प्रदीपावलिभिः पृथक्
विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत्। लवणापूपताम्बूल कण्ठसूत्रफलेक्षुभिः
तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः। ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः
मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात्। प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना
तां देवमायामिव धीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम्। श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम्
शुचिस्मितां बिम्बफलाधरद्युति शोणायमानद्विजकुन्दकुड्मलाम्। पदा चलन्तीं कलहंसगामिनीं सिञ्जत्कलानूपुरधामशोभिना
विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः। यां वीक्ष्य ते नृपतयस्तदुदारहास व्रीडावलोकहृतचेतस उज्झितास्त्राः
पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम्। सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा
उत्सार्य वामकरजैरलकानपङ्गैः प्राप्तान्ह्रियैक्षत नृपान्ददृशेऽच्युतं च। तां राजकन्यां रथमारुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम्
रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः। ततो ययौ रामपुरोगमः शनैः शृगालमध्यादिव भागहृद्धरिः
तं मानिनः स्वाभिभवं यशःक्षयं। परे जरासन्धमुखा न सेहिरे। अहो धिगस्मान्यश आत्तधन्वनां। गोपैर्हृतं केशरिणां मृगैरिव
अथ चतुःपञ्चाशत्तमोऽध्यायः 10.54 श्रीशुक उवाच। इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः। स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः
तानापतत आलोक्य यादवानीकयूथपाः। तस्थुस्तत्सम्मुखा राजन्विस्फूर्ज्य स्वधनूंषि ते
अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्त्र कोविदाः। मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा
पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा। सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना
प्रहस्य भगवानाह मा स्म भैर्वामलोचने। विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम्