हिरण्यरूप्य वासांसि तिलांश्च गुडमिश्रितान्। प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः
एवं चेदिपती राजा दमघोषः सुताय वै। कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम्
मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः। पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ
तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च। निवेशयामास मुदा कल्पितान्यनिवेशने
तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः। आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः
कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम्। यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः
योत्स्यामः संहतास्तेन इति निश्चितमानसाः। आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः
श्रुत्वैतद्भगवान्रामो विपक्षीय नृपोद्यमम्। कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः
बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः। त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः
भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः। प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा
अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः। नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम्। सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः
अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम्। मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः
दुर्भगाया न मे धाता नानुकूलो महेश्वरः। देवी वा विमुखी गौरी रुद्राणी गिरिजा सती
एवं चिन्तयती बाला गोविन्दहृतमानसा। न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले
एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप। वाम ऊरुर्भुजो नेत्रमस्फुरन्प्रियभाषिणः
अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः। अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह
सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती। आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता
तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम्। उक्तं च सत्यवचनमात्मोपनयनं प्रति
तमागतं समाज्ञाय वैदर्भी हृष्टमानसा। न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा
प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ। अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः
मधुपर्कमुपानीय वासांसि विरजांसि सः। उपायनान्यभीष्टानि विधिवत्समपूजयत्
तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः। ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा
एवं राज्ञां समेतानां यथावीर्यं यथावयः। यथाबलं यथावित्तं सर्वैः कामैः समर्हयत्
कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः। आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम्
अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा। असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः
किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत्। अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः
एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः। कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम्
पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम्। सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम्
यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता। गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः। मृडङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे
नानोपहार बलिभिर्वारमुख्याः सहस्रशः। स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः