पूर्तेष्टदत्तनियमव्रतदेवविप्र। गुर्वर्चनादिभिरलं भगवान्परेशः। आराधितो यदि गदाग्रज एत्य पाणिं। गृह्णातु मे न दमघोषसुतादयोऽन्ये
श्वो भाविनि त्वमजितोद्वहने विदर्भान्। गुप्तः समेत्य पृतनापतिभिः परीतः। निर्मथ्य चैद्यमगधेन्द्र बलं प्रसह्य। मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्
अन्तःपुरान्तरचरीमनिहत्य बन्धून्। त्वामुद्वहे कथमिति प्रवदाम्युपायम्। पूर्वेद्युरस्ति महती कुलदेवयात्रा। यस्यां बहिर्नववधूर्गिरिजामुपेयात्
यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो। वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै। यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं। जह्यामसून्व्रतकृशान्शतजन्मभिः स्यात्
ब्राह्मण उवाच। इत्येते गुह्यसन्देशा यदुदेव मया हृताः। विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम्
अथ त्रिपञ्चाशत्तमोऽध्यायः 10.53 श्रीशुक उवाच। वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः। प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत्
श्रीभगवानुवाच। तथाहमपि तच्चित्तो निद्रां च न लभे निशि। वेदाहम्रुक्मिणा द्वेषान्ममोद्वाहो निवारितः
तामानयिष्य उन्मथ्य राजन्यापसदान्मृधे। मत्परामनवद्याङ्गी मेधसोऽग्निशिखामिव
श्रीशुक उवाच। उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः। रथः संयुज्यतामाशु दारुकेत्याह सारथिम्
स चाश्वैः शैब्यसुग्रीव मेघपुष्पबलाहकैः। युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः
आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः। आनर्तादेकरात्रेण विदर्भानगमद्धयैः
राजा स कुण्डिनपतिः पुत्रस्नेहवशानुगः। शिशुपालाय स्वां कन्यां दास्यन्कर्माण्यकारयत्
पुरं सम्मृष्टसंसिक्त मार्गरथ्याचतुष्पथम्। चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम्
स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः। जुष्टं स्त्रीपुरुषैः श्रीमद् गृहैरगुरुधूपितैः
पितॄन्देवान्समभ्यर्च्य विप्रांश्च विधिवन्नृप। भोजयित्वा यथान्यायं वाचयामास मङ्गलम्
सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम्। आहतांशुकयुग्मेन भूषितां भूषणोत्तमैः
चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः। पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये
हिरण्यरूप्य वासांसि तिलांश्च गुडमिश्रितान्। प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः
एवं चेदिपती राजा दमघोषः सुताय वै। कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम्
मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः। पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ
तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च। निवेशयामास मुदा कल्पितान्यनिवेशने
तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः। आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः
कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम्। यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः
योत्स्यामः संहतास्तेन इति निश्चितमानसाः। आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः
श्रुत्वैतद्भगवान्रामो विपक्षीय नृपोद्यमम्। कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः
बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः। त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः
भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः। प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा
अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः। नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम्। सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः
अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम्। मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः
दुर्भगाया न मे धाता नानुकूलो महेश्वरः। देवी वा विमुखी गौरी रुद्राणी गिरिजा सती